चांपेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय ॥ १ ॥

कस्तूरिकाकुंकुमचर्चितायै
चितारजःपुंज विचर्चिताय ।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय ॥ २ ॥

झणत्क्वणत्कंकणनूपुरायै
पादाब्जराजत्फणिनूपुराय ।
हेमांगदायै भुजगांगदाय
नमः शिवायै च नमः शिवाय ॥ ३ ॥

विशालनीलोत्पललोचनायै
विकासिपंकेरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय ॥ ४ ॥

मंदारमालाकलितालकायै
कपालमालांकितकंधराय ।
दिव्यांबरायै च दिगंबराय
नमः शिवायै च नमः शिवाय ॥ ५ ॥

अंभोधरश्यामलकुंतलायै
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥ ६ ॥

प्रपंचसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकतांडवाय ।
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय ॥ ७ ॥

प्रदीप्तरत्नोज्ज्वलकुंडलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय ॥ ८ ॥

एतत्पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनंतकालं
भूयात्सदा तस्य समस्तसिद्धिः ॥