करारविंदेन पदारविंदं मुखारविंदे विनिवेशयंतम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुंदं मनसा स्मरामि ॥ १ ॥

संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यंतविहीनरूपम् ।
सर्वेश्वरं सर्वहितावतारं बालं मुकुंदं मनसा स्मरामि ॥ २ ॥

इंदीवरश्यामलकोमलांगम् इंद्रादिदेवार्चितपादपद्मम् ।
संतानकल्पद्रुममाश्रितानां बालं मुकुंदं मनसा स्मरामि ॥ ३ ॥

लंबालकं लंबितहारयष्टिं शृंगारलीलांकितदंतपंक्तिम् ।
बिंबाधरं चारुविशालनेत्रं बालं मुकुंदं मनसा स्मरामि ॥ ४ ॥

शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् ।
भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुंदं मनसा स्मरामि ॥ ५ ॥

कलिंदजांतस्थितकालियस्य फणाग्ररंगेनटनप्रियंतम् ।
तत्पुच्छहस्तं शरदिंदुवक्त्रं बालं मुकुंदं मनसा स्मरामि ॥ ६ ॥

उलूखले बद्धमुदारशौर्यम् उत्तुंगयुग्मार्जुन भंगलीलम् ।
उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुंदं मनसा स्मरामि ॥ ७ ॥

आलोक्य मातुर्मुखमादरेण स्तन्यं पिबंतं सरसीरुहाक्षम् ।
सच्चिन्मयं देवमनंतरूपं बालं मुकुंदं मनसा स्मरामि ॥ ८ ॥