ध्यानं
केतुं करालवदनं चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥ १ ॥

। अथ केतु कवचम् ।

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः ।
पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ॥ २ ॥

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।
पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः ॥ ३ ॥

हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ ४ ॥

ऊरू पातु महाशीर्षो जानुनी मे‌உतिकोपनः ।
पातु पादौ च मे क्रूरः सर्वांगं नरपिंगलः ॥ ५ ॥

फलश्रुतिः
य इदं कवचं दिव्यं सर्वरोगविनाशनम् ।
सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ॥ ६ ॥

॥ इति श्रीब्रह्मांडपुराणे केतुकवचं संपूर्णम् ॥