ऋग्वेद संहिता; मंडलं १०; सूक्तं ८३,८४

यस्ते॓ म॒न्यो‌உवि॑धद् वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।
सा॒ह्याम॒ दास॒मार्यं॒ त्वया॓ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ १ ॥

म॒न्युरिंद्रो॓ म॒न्युरे॒वास॑ दे॒वो म॒न्युर् होता॒ वरु॑णो जा॒तवे॓दाः ।
म॒न्युं विश॑ ईलते॒ मानु॑षी॒र्याः पा॒हि नो॓ मन्यो॒ तप॑सा स॒जोषा॓ः ॥ २ ॥

अ॒भी॓हि मन्यो त॒वस॒स्तवी॓या॒न् तप॑सा यु॒जा वि ज॑हि शत्रू॓न् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥ ३ ॥

त्वं हि म॓न्यो अ॒भिभू॓त्योजाः स्वय॒ंभूर्भामो॓ अभिमातिषा॒हः ।
वि॒श्वच॑र्-षणिः॒ सहु॑रिः॒ सहा॓वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥ ४ ॥

अ॒भा॒गः सन्नप॒ परे॓तो अस्मि॒ तव॒ क्रत्वा॓ तवि॒षस्य॑ प्रचेतः ।
तं त्वा॓ मन्यो अक्र॒तुर्जि॑हीला॒हं स्वात॒नूर्ब॑ल॒देया॓य॒ मेहि॑ ॥ ५ ॥

अ॒यं ते॓ अ॒स्म्युप॒ मेह्य॒र्वाङ् प्र॑तीची॒नः स॑हुरे विश्वधायः ।
मन्यो॓ वज्रिन्न॒भि मामा व॑वृत्स्वहना॓व॒ दस्यू॓न् ऋ॒त बो॓ध्या॒पेः ॥ ६ ॥

अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मे‌உधा॓ वृ॒त्राणि॑ जंघनाव॒ भूरि॑ ।
जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मुभा उ॑पा॒ंशु प्र॑थ॒मा पि॑बाव ॥ ७ ॥

त्वया॓ मन्यो स॒रथ॑मारु॒जंतो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः ।
ति॒ग्मेष॑व॒ आयु॑धा स॒ंशिशा॓ना अ॒भि प्रयं॓तु॒ नरो॓ अ॒ग्निरू॓पाः ॥ ८ ॥

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॓धि ।
ह॒त्वाय॒ शत्रू॒न् वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॓नो॒ विमृधो॓ नुदस्व ॥ ९ ॥

सह॑स्व मन्यो अ॒भिमा॓तिम॒स्मे रु॒जन् मृ॒णन् प्र॑मृ॒णन् प्रेहि॒ शत्रू॓न् ।
उ॒ग्रं ते॒ पाजो॓ न॒न्वा रु॑रुध्रे व॒शी वशं॓ नयस एकज॒ त्वम् ॥ १० ॥

एको॓ बहू॒नाम॑सि मन्यवीलि॒तो विशं॓विशं यु॒धये॒ सं शि॑शाधि ।
अकृ॑त्तरु॒क् त्वया॓ यु॒जा व॒यं द्यु॒मंतं॒ घोषं॓ विज॒याय॑ कृण्महे ॥ ११ ॥

वि॒जे॒ष॒कृदिंद्र॑ इवानवब्र॒वो॒(ओ)३॑‌உस्माकं॓ मन्यो अधि॒पा भ॑वे॒ह ।
प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मातमुत्सं॒ यत॑ आब॒भूथ॑ ॥ १२ ॥

आभू॓त्या सह॒जा व॑ज्र सायक॒ सहो॓ बिभर्ष्यभिभूत॒ उत्त॑रम् ।
क्रत्वा॓ नो मन्यो स॒हमे॒द्ये॓धि महाध॒नस्य॑ पुरुहूत स॒ंसृजि॑ ॥ १३ ॥

संसृ॑ष्टं॒ धन॑मु॒भयं॓ स॒माकृ॑तम॒स्मभ्यं॓ दत्तां॒ वरु॑णश्च म॒न्युः ।
भियं॒ दधा॓ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॓जितासो॒ अप॒ निल॑यंताम् ॥ १४ ॥

धन्व॑ना॒गाधन्व॑ ना॒जिंज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॓ जयेम ।
धनुः शत्रो॓रपका॒मं कृ॑णोति॒ धन्व॑ ना॒सर्वा॓ः प्र॒दिशो॓ जयेम ॥

भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥

ॐ शांता॑ पृथिवी शि॑वम॒ंतरिक्षं॒ द्यौर्नो॓ दे॒व्य‌உभ॑यन्नो अस्तु ।
शि॒वा॒ दिशः॑ प्र॒दिश॑ उ॒द्दिशो॓ न॒‌உआपो॓ वि॒श्वतः॒ परि॑पांतु स॒र्वतः॒ शांतिः॒ शांतिः॒ शांतिः॑ ॥