कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता ।
काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥1॥

कञ्चन काञ्चीनिलयं करधृतकोदण्डबाणसृणिपाशम् ।
कठिनस्तनभरनम्रं कैवल्यानन्दकन्दमवलम्बे ॥2॥

चिन्तितफलपरिपोषणचिन्तामणिरेव काञ्चिनिलया मे ।
चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ॥3॥

कुटिलकचं कठिनकुचं कुन्दस्मितकान्ति कुङ्कुमच्छायम् ।
कुरुते विहृतिं काञ्च्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥4॥

पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन ।
काञ्चीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥5॥

परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया ।
परतन्त्रा वयमनया पङ्कजसब्रह्मचारिलोचनया ॥6॥

ऐश्वर्यमिन्दुमौलेरैकत्म्यप्रकृति काञ्चिमध्यगतम् ।
ऐन्दवकिशोरशेखरमैदम्पर्यं चकास्ति निगमानाम् ॥7॥

श्रितकम्पसीमानं शिथिलितपरमशिवधैर्यमहिमानम् ।
कलये पटलिमानं कञ्चन कञ्चुकितभुवनभूमानम् ॥8॥

आदृतकाञ्चीनिलयमाद्यामारूढयौवनाटोपाम् ।
आगमवतंसकलिकामानन्दाद्वैतकन्दलीं वन्दे ॥9॥

तुङ्गाभिरामकुचभरशृङ्गारितमाश्रयामि काञ्चिगतम् ।
गङ्गाधरपरतन्त्रं शृङ्गाराद्वैततन्त्रसिद्धान्तम् ॥10॥

काञ्चीरत्नविभूषां कामपि कन्दर्पसूतिकापाङ्गीम् ।
परमां कलामुपासे परशिववामाङ्कपीठिकासीनाम् ॥11॥

कम्पातीचराणां करुणाकोरकितदृष्टिपातानाम् ।
केलीवनं मनो मे केषाञ्चिद्भवतु चिद्विलासानाम् ॥12॥

आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् ।
आरब्धयौवनोत्सवमाम्नायरहस्यमन्तरवलम्बे ॥13॥

अधिकाञ्चि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन ।
अनुबद्धं मम मानसमरुणिमसर्वस्वसम्प्रदायेन ॥14॥

अङ्कितशङ्करदेहामङ्कुरितोरोजकङ्कणाश्लेषैः ।
अधिकाञ्चि नित्यतरुणीमद्राक्षं काञ्चिदद्भुतां बालाम् ॥15॥

मधुरधनुषा महीधरजनुषा नन्दामि सुरभिबाणजुषा ।
चिद्वपुषा काञ्चिपुरे केलिजुषा बन्धुजीवकान्तिमुषा ॥16॥

मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन ।
मध्येकाञ्चि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥17॥

धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् ।
अम्बुमयीमिन्दुमयीमम्बामनुकम्पमादिमामीक्षे ॥18॥

लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम् ।
पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ॥19॥

श्वेता मन्थरहसिते शाता मध्ये च वाड्भनो‌உतीता ।
शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥20॥

पुरतः कदा न करवै पुरवैरिविमर्दपुलकिताङ्गलताम् ।
पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥21॥

पुण्या का‌உपि पुरन्ध्री पुङ्खितकन्दर्पसम्पदा वपुषा ।
पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ॥22॥

तनिमाद्वैतवलग्नं तरुणारुणसम्प्रदायतनुलेखम् ।
तटसीमनि कम्पायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥23॥

पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कम्पायाः ।
अद्राक्षमात्तयौवनमभ्युदयं कञ्चिदर्धशशिमौलैः ॥24॥

संश्रितकाञ्चीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे ।
संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥25॥

मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदण्डम् ।
आदृतकाञ्चीखेलनमादिममारुण्यभेदमाकलये ॥26॥

उररीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम् ।
उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शम्भोः ॥27॥

एणशिशुदीर्घलोचनमेनःपरिपन्थि सन्ततं भजताम् ।
एकाम्रनाथजीवितमेवम्पददूरमेकमवलम्बे ॥28॥

स्मयमानमुखं काञ्चीभयमानं कमपि देवताभेदम् ।
दयमानं वीक्ष्य मुहुर्वयमानन्दामृताम्बुधौ मग्नाः ॥29॥

कुतुकजुषि काञ्चिदेशे कुमुदतपोराशिपाकशेखरिते ।
कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ॥30॥

वीक्षेमहि काञ्चिपुरे विपुलस्तनकलशगरिमपरवशितम् ।
विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ॥31॥

कुरुविन्दगोत्रगात्रं कूलचरं कमपि नौमि कम्पायाः ।
कूलङ्कषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ॥32॥

कुडूमलितकुचकिशोरैः कुर्वाणैः काञ्चिदेशसौहार्दम् ।
कुङ्कुमशोणैर्निचितं कुशलपथं शम्भुसुकृतसम्भारैः ॥33॥

अङ्कितकचेन केनचिदन्धङ्करणौषधेन कमलानाम् ।
अन्तःपुरेण शम्भोरलङ्क्रिया का‌உपि कल्प्यते काञ्च्याम् ॥34॥

ऊरीकरोमि सन्ततमूष्मलफालेन ललितं पुंसा ।
उपकम्पमुचितखेलनमुर्वीधरवंशसम्पदुन्मेषम् ॥35॥

अङ्कुरितस्तनकोरकमङ्कालङ्कारमेकचूतपतेः ।
आलोकेमहि कोमलमागमसंलापसारयाथार्थ्यम् ॥36॥

पुञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे ।
मञ्जरितमृदुलहासं पिञ्जरतनुरुचि पिनाकिमूलधनम् ॥37॥

लोलहृदयो‌உस्ति शम्भोर्लोचनयुगलेन लेह्यमानायाम् ।
ललितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥38॥

मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः ।
मण्डितकम्पातीरैर्मङ्गलकन्दैर्ममास्तु सारूप्यम् ॥39॥

वदनारविन्दवक्षोवामाङ्कतटीवशंवदीभूता ।
पूरुषत्रितये त्रेधा पुरन्ध्रिरूपा त्वमेव कामाक्षि ॥40॥

बाधाकरीं भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् ।
आधारीकृतकाञ्ची बोधामृतवीचिमेव विमृशामः ॥41॥

कलयाम्यन्तः शशधरकलया‌உङ्कितमौलिममलचिद्वलयाम् ।
अलयामागमपीठीनिलयां वलयाङ्कसुन्दरीमम्बाम् ॥42॥

शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे ।
सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ॥43॥

समया सान्ध्यमयूखैः समया बुद्धया सदैव शीलितया ।
उमया काञ्चीरतया न मया लभ्यते किं नु तादात्म्यम् ॥44॥

जन्तोस्तव पदपूजनसन्तोषतरङ्गितस्य कामाक्षि ।
वन्धो यदि भवति पुनः सिन्धोरम्भस्सु बम्भ्रमीति शिला ॥45॥

कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे ।
गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥46॥

अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः ।
अनहन्ता त्वमहन्ता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥47॥

शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥48॥

कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते ।
कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥49॥

मध्येहृदयं मध्येनिटिलं मध्येशिरो‌உपि वास्तव्याम् ।
चण्डकरशक्रकार्मुकचन्द्रसमाभां नमामि कामाक्षीम् ॥50॥

अधिकाञ्चि केलिलोलैरखिलागमयन्त्रतन्त्रमयैः ।
अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ॥51॥

नन्दति मम हृदि काचन मन्दिरयन्ता निरन्तरं काञ्चीम् ।
इन्दुरविमण्डलकुचा बिन्दुवियन्नादपरिणता तरुणी ॥52॥

शम्पालतासवर्णं सम्पादयितुं भवज्वरचिकित्साम् ।
लिम्पामि मनसि किञ्चन कम्पातटरोहि सिद्धभैषज्यम् ॥53॥

अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः ।
आनन्ददां भजे तामानङ्गब्रह्मतत्वबोधसिराम् ॥54॥

ऐक्षिषि पाशाङ्कुशधरहस्तान्तं विस्मयार्हवृत्तान्तम् ।
अधिकाञ्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ॥55॥

आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया ।
आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥56॥

मूको‌உपि जटिलदुर्गतिशोको‌உपि स्मरति यः क्षणं भवतीम् ।
एको भवति स जन्तुर्लोकोत्तरकीर्तिरेव कामाक्षि ॥57॥

पञ्चदशवर्णरूपं कञ्चन काञ्चीविहारधौरेयम् ।
पञ्चशरीयं शम्भोर्वञ्चनवैदग्ध्यमूलमवलम्बे ॥58॥

परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् ।
पञ्चाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ॥59॥

आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम् ।
स्वादिष्ठचापदण्डां नेदिष्ठामेव कामपीठगताम् ॥60॥

तुष्यामि हर्षितस्मरशासनया काञ्चिपुरकृतासनया ।
स्वासनया सकलजगद्भासनया कलितशम्बरासनया ॥61॥

प्रेमवती कम्पायां स्थेमवती यतिमनस्सु भूमवती ।
सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥62॥

कौतुकिना कम्पायां कौसुमचापेन कीलितेनान्तः ।
कुलदैवतेन महता कुड्मलमुद्रां धुनोतु नःप्रतिभा ॥63॥

यूना केनापि मिलद्देहा स्वाहासहायतिलकेन ।
सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ॥64॥

कुसुमशरगर्वसम्पत्कोशगृहं भाति काञ्चिदेशगतम् ।
स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ॥65॥

दग्धषडध्वारण्यं दरदलितकुसुम्भसम्भृतारुण्यम् ।
कलये नवतारुण्यं कम्पातटसीम्नि किमपि कारुण्यम् ॥66॥

अधिकाञ्चि वर्धमानामतुलां करवाणि पारणामक्ष्णोः ।
आनन्दपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ॥67॥

बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् ।
एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥68॥

किं वा फलति ममान्यौर्बिम्बाधरचुम्बिमन्दहासमुखी ।
सम्बाधकरी तमसामम्बा जागर्ति मनसि कामाक्षी ॥69॥

मञ्चे सदाशिवमये परिशिवमयललितपौष्पपर्यङ्के ।
अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥70॥

रक्ष्यो‌உस्मि कामपीठीलासिकया घनकृपाम्बुराशिकया ।
श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ॥71॥

लीये पुरहरजाये माये तव तरुणपल्लवच्छाये ।
चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥72॥

मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये ।
मोदितकम्पाकूले मुहुर्मुहुर्मनसि मुमुदिषा‌உस्माकम् ॥73॥

वेदमयीं नादमयीं बिन्दुमयीं परपदोद्यदिन्दुमयीम् ।
मन्त्रमयीं तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥74॥

पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसधाटी ।
मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥75॥

कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु ।
अवलोकितमवलम्बितमधिकम्पातटममेयमस्माभिः ॥76॥

प्रत्यङ्मुख्या दृष्टया प्रसाददीपाङ्कुरेण कामाक्ष्याः ।
पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ॥77॥

विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले ।
भारति भैरवि भद्रे शाकिनि शाम्भवि शिवे स्तुवे भवतीम् ॥78॥

मालिनि महेशचालिनि काञ्चीखेलिनि विपक्षकालिनि ते ।
शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमो‌உस्तु ॥79॥

देशिक इति किं शङ्के तत्तादृक्तव नु तरुणिमोन्मेषः ।
कामाक्षि शूलपाणेः कामागमसमयदीक्षायाम् ॥80॥

वेतण्डकुम्भडम्बरवैतण्डिककुचभरार्तमध्याय ।
कुङ्कुमरुचे नमस्यां शङ्करनयनामृताय रचयामः ॥81॥

अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि काञ्चिदद्राक्षम् ।
अवनतजनानुकम्पामनुकम्पाकूलमस्मदनुकूलाम् ॥82॥

परिचितकम्पातीरं पर्वतराजन्यसुकृतसन्नाहम् ।
परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ॥83॥

दग्धमदनस्य शम्भोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् ।
तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ॥84॥

मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा ।
विहरति पुलिन्दयोषा गुञ्जाभूषा फणीन्द्रकृतवेषा ॥85॥

अङ्के शुकिनी गीते कौतुकिनी परिसरे च गायकिनी ।
जयसि सविधे‌உम्ब भैरवमण्डलिनी श्रवसि शङ्खकुन्डलिनी ॥86॥

प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा ।
कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥87॥

श्रवणचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा ।
देवि कलितान्त्रषण्डा धृतनरमुण्डा त्वमेव चामुण्डा ॥88॥

उर्वीधरेन्द्रकन्ये दर्वीभरितेन भक्तपूरेण ।
गुर्वीमकिञ्चनार्ति खर्वीकुरुषे त्वमेव कामाक्षि ॥89॥

ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला ।
क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥90॥

स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला ।
कनकरुचिचौर्यशीला त्वमम्ब बाला कराब्जधृतमाला ॥91॥

विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी ।
कामाक्षि पक्ष्मलाक्षी कलितविपञ्ची विभासि वैरिञ्ची ॥92॥

कुङ्कुमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं मातः ।
श्रीकामाक्षि तदीयसङ्गमकलामन्दीभवत्कौतुकः
जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ॥93॥

कनकमणिकलितभूषां कालायसकलहशीलकान्तिकलाम् ।
कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥94॥

लोहितिमपुञ्जमध्ये मोहितभुवने मुदा निरीक्षन्ते ।
वदनं तव कुवयुगलं काञ्चीसीमां च के‌உपि कामाक्षि ॥95॥

जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः ।
नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ॥96॥

सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्रेण्या ।
अपवर्गसौधवलभीमारोहन्त्यम्ब के‌உपि तव कृपया ॥97॥

अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते ।
चिन्तितसन्तानवतां सन्ततमपि तन्तनीषि महिमानम् ॥98॥

कलमञ्जुलवागनुमितगलपञ्जरगतशुकग्रहौत्कण्ठ्यात् ।
अम्ब रदनाम्बरं ते बिम्बफलं शम्बरारिणा न्यस्तम् ॥99॥

जय जय जगदम्ब शिवे जय जय कामाक्षि जय जयाद्रिसुते ।
जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥100॥

आर्याशतकं भक्त्या पठतामार्याकटाक्षेण ।
निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥101॥

॥ इति आर्याशतकं सम्पूर्णम् ॥