महिम्नः पंथानं मदनपरिपंथिप्रणयिनि
प्रभुर्निर्णेतुं ते भवति यतमानो‌உपि कतमः ।
तथापि श्रीकांचीविहृतिरसिके को‌உपि मनसो
विपाकस्त्वत्पादस्तुतिविधिषु जल्पाकयति माम् ॥१॥

गलग्राही पौरंदरपुरवनीपल्लवरुचां
धृतपाथम्यानामरुणमहसामादिमगुरुः ।
समिंधे बंधूकस्तबकसहयुध्वा दिशि दिशि
प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥२॥

मरालीनां यानाभ्यसनकलनामूलगुरवे
दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे ।
तमस्कांडप्रौढिप्रकटनतिरस्कारपटवे
जनो‌உयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥३॥

वहंती सैंदूरीं सरणिमवनम्रामरपुऱी-
पुरंध्रीसीमंते कविकमलबालार्कसुषमा ।
त्रयीसीमंतिन्याः स्तनतटनिचोलारुणपटी
विभांती कामाक्ष्याः पदनलिनकांतिर्विजयते ॥४॥

प्रणम्रीभूतस्य प्रणयकलहत्रस्तमनसः
स्मरारातेश्चूडावियति गृहमेधी हिमकरः ।
ययोः सांध्यां कांतिं वहति सुषमाभिश्चरणयोः
तयोर्मे कामाक्ष्या हृदयमपतंद्रं विहरताम् ॥५॥

ययोः पीठायंते विबुधमुकुटीनां पटलिका
ययोः सौधायंते स्वयमुदयभाजो भणितयः ।
ययोः दासायंते सरसिजभवाद्याश्चरणयोः
तयोर्मे कामाक्ष्या दिनमनु वरीवर्तु हृदयम् ॥६॥

नयंती संकोचं सरसिजरुचं दिक्परिसरे
सृजंती लौहित्यं नखकिरणचंद्रार्धखचिता ।
कवींद्राणां हृत्कैरवविकसनोद्योगजननी
स्फुरंती कामाक्ष्याः चरणरुचिसंध्या विजयते ॥७॥

विरावैर्मांजीरैः किमपि कथयंतीव मधुरं
पुरस्तादानम्रे पुरविजयिनि स्मेरवदने ।
वयस्येव प्रौढा शिथिलयति या प्रेमकलह-
प्ररोहं कामाक्ष्याः चरणयुगली सा विजयते ॥८॥

सुपर्वस्त्रीलोलालकपरिचितं षट्पदकुलैः
स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः ।
भृतं कांत्यंभोभिः विसृमरमरंदैः सरसिजैः
विधत्ते कामाक्ष्याः चरणयुगलं बंधुपदवीम् ॥९॥

रजःसंसर्गे‌உपि स्थितमरजसामेव हृदये
परं रक्तत्वेन स्थितमपि विरक्तैकशरणम् ।
अलभ्यं मंदानां दधदपि सदा मंदगतितां
विधत्ते कामाक्ष्याः चरणयुगमाश्चर्यलहरीम् ॥१०॥

जटाला मंजीरस्फुरदरुणरत्नांशुनिकरैः
निषिदंती मध्ये नखरुचिझरीगांगपयसाम् ।
जगत्त्राणं कर्तुं जननि मम कामाक्षि नियतं
तपश्चर्यां धत्ते तव चरणपाथोजयुगली ॥११॥

तुलाकोटिद्वंद्वक्कणितभणिताभीतिवचसोः
विनम्रं कामाक्षी विसृमरमहःपाटलितयोः ।
क्षणं विन्यासेन क्षपिततमसोर्मे ललितयोः
पुनीयान्मूर्धानं पुरहरपुरंध्री चरणयोः ॥१२॥

भवानि द्रुह्येतां भवनिबिडितेभ्यो मम मुहु-
स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ ।
ययोर्लाक्षाबिंदुस्फुरणधरणाद्ध्वर्जटिजटा-
कुटीरा शोणांकं वहति वपुरेणांककलिका ॥१३॥

पवित्रीकुर्युर्नुः पदतलभुवः पाटलरुचः
परागास्ते पापप्रशमनधुरीणाः परशिवे ।
कणं लब्धुं येषां निजशिरसि कामाक्षि विवशा
वलंतो व्यातन्वंत्यहमहमिकां माधवमुखाः ॥१४॥

बलाकामालाभिर्नखरुचिमयीभिः परिवृते
विनम्रस्वर्नारीविकचकचकालांबुदकुले ।
स्फुरंतः कामाक्षि स्फुटदलितबंधूकसुहृद-
स्तटिल्लेखायंते तव चरणपाथोजकिरणाः ॥१५॥

सरागः सद्वेषः प्रसृमरसरोजे प्रतिदिनं
निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् ।
कथंकारं मातः कथय पदपद्मस्तव सतां
नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥१६॥

जपालक्ष्मीशोणो जनितपरमज्ञाननलिनी-
विकासव्यासंगो विफलितजगज्जाड्यगरिमा ।
मनःपूर्वाद्रिं मे तिलकयतु कामाक्षि तरसा
तमस्कांडद्रोही तव चरणपाथोजरमणः ॥१७॥

नमस्कुर्मः प्रेंखन्मणिकटकनीलोत्पलमहः-
पयोधौ रिंखद्भिर्नखकिरणफेनैर्धवलिते ।
स्फुटं कुर्वाणाय प्रबलचलदौर्वानलशिखा-
वितर्कं कामाक्ष्याः सततमरुणिम्ने चरणयोः ॥१८॥

शिवे पाशायेतामलघुनि तमःकूपकुहरे
दिनाधीशायेतां मम हृदयपाथोजविपिने ।
नभोमासायेतां सरसकवितारीतिसरिति
त्वदीयौ कामाक्षि प्रसृतकिरणौ देवि चरणौ ॥१९॥

निषक्तं श्रुत्यंते नयनमिव सद्वृत्तरुचिरैः
समैर्जुष्टं शुद्धैरधरमिव रम्यैर्द्विजगणैः ।
शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे
त्वदीयं कामाक्षि प्रणतशरणं नौमि चरणम् ॥२०॥

नमस्यासंसज्जन्नमुचिपरिपंथिप्रणयिनी-
निसर्गप्रेंखोलत्कुरलकुलकालाहिशबले ।
नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां
प्रचारं कामाक्षि प्रचुरयति पादाब्जसुषमा ॥२१॥

कदा दूरीकर्तुं कटुदुरितकाकोलजनितं
महांतं संतापं मदनपरिपंथिप्रियतमे ।
क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे
पटीयांसं लप्स्ये पदकमलसेवामृतरसम् ॥२२॥

ययोः सांध्यं रोचिः सततमरुणिम्ने स्पृहयते
ययोश्चांद्री कांतिः परिपतति दृष्ट्वा नखरुचिम् ।
ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं
म्रदिम्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥२३॥

जगन्नेदं नेदं परमिति परित्यज्य यतिभिः
कुशाग्रीयस्वांतैः कुशलधिषणैः शास्त्रसरणौ ।
गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते
गिरामैदंपर्यं तव चरणपद्मं विजयते ॥२४॥

कृतस्नानं शास्त्रामृतसरसि कामाक्षि नितरां
दधानं वैशद्यं कलितरसमानंदसुधया ।
अलंकारं भूमेर्मुनिजनमनश्चिन्मयमहा-
पयोधेरंतस्स्थं तव चरणरत्नं मृगयते ॥२५॥

मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहुः
दरिद्राणीकुर्वंदिनकरसहस्राणि किरणैः ।
विधत्तां कामाक्षि प्रसृमरतमोवंचनचणः
क्षणार्धं सान्निध्यं चरणमणिदीपो जननि ते ॥२६॥

कवीनां चेतोवन्नखररुचिसंपर्कि विबुध-
स्रवंतीस्रोतोवत्पटुमुखरितं हंसकरवैः ।
दिनारंभश्रीवन्नियतमरुणच्छायसुभगं
मदंतः कामाक्ष्याः स्फुरतु पदपंकेरुहयुगम् ॥२७॥

सदा किं संपर्कात्प्रकृतिकठिनैर्नाकिमुकुटैः
तटैर्नीहाराद्रेरधिकमणुना योगिमनसा ।
विभिंते संमोहं शिशिरयति भक्तानपि दृशाम्
अदृश्यं कामाक्षि प्रकटयति ते पादयुगलम् ॥२८॥

पवित्राभ्यामंब प्रकृतिमृदुलाभ्यां तव शिवे
पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः ।
प्रवालैरंभोजैरपि च वनवासव्रतदशाः
सदैवारभ्यंते परिचरितनानाद्विजगणैः ॥२९॥

चिराद्दृश्या हंसैः कथमपि सदा हंससुलभं
निरस्यंती जाड्यं नियतजडमध्यैकशरणम् ।
अदोषव्यासंगा सततमपि दोषाप्तिमलिनं
पयोजं कामाक्ष्याः परिहसति पादाब्जयुगली ॥३०॥

सुराणामानंदप्रबलनतया मंडनतया
नखेंदुज्योत्स्नाभिर्विसृमरतमःखंडनतया ।
पयोजश्रीद्वेषव्रतरततया त्वच्चरणयोः
विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥३१॥

सितिम्ना कांतीनां नखरजनुषां पादनलिन-
च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने ।
लभंते मंदारग्रथितनवबंधूककुसुम-
स्रजां सामीचीन्यं सुरपुरपुरंध्रीकचभराः ॥३२॥

स्फुरन्मध्ये शुद्धे नखकिरणदुग्धाब्धिपयसां
वहन्नब्जं चक्रं दरमपि च लेखात्मकतया ।
श्रितो मात्स्यं रूपं श्रियमपि दधानो निरुपमां
त्रिधामा कामाक्ष्याः पदनलिननामा विजयते ॥३३॥

नखश्रीसन्नद्धस्तबकनिचितः स्वैश्च किरणैः
पिशंगैः कामाक्षि प्रकटितलसत्पल्लवरुचिः ।
सतां गम्यः शंके सकलफलदाता सुरतरुः
त्वदीयः पादो‌உयं तुहिनगिरिराजन्यतनये ॥३४॥

वषट्कुर्वन्मांजीरकलकलैः कर्मलहरी-
हवींषि प्रौद्दंडं ज्वलति परमज्ञानदहने ।
महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां
मनोवेद्यां मातस्तव चरणयज्वा गिरिसुते ॥३५॥

महामंत्रं किंचिन्मणिकटकनादैर्मृदु जपन्
क्षिपंदिक्षु स्वच्छं नखरुचिमयं भास्मनरजः ।
नतानां कामाक्षि प्रकृतिपटुरच्चाट्य ममता-
पिशाचीं पादो‌உयं प्रकटयति ते मांत्रिकदशाम् ॥३६॥

उदीते बोधेंदौ तमसि नितरां जग्मुषि दशां
दरिद्रां कामाक्षि प्रकटमनुरागं विदधती ।
सितेनाच्छाद्यांगं नखरुचिपटेनांघ्रियुगली-
पुरंध्री ते मातः स्वयमभिसरत्येव हृदयम् ॥३७॥

दिनारंभः संपन्नलिनविपिनानामभिनवो
विकासो वासंतः सुकविपिकलोकस्य नियतः ।
प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन-
श्चकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥३८॥

धृतच्छायं नित्यं सरसिरुहमैत्रीपरिचितं
निधानं दीप्तीनां निखिलजगतां बोधजनकम् ।
मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं
पदं ते पातंगीं परिकलयते पर्वतसुते ॥३९॥

शनैस्तीर्त्वा मोहांबुधिमथ समारोढुमनसः
क्रमात्कैवल्याख्यां सुकृतिसुलभां सौधवलभीम् ।
लभंते निःश्रेणीमिव झटिति कामाक्षि चरणं
पुरश्चर्याभिस्ते पुरमथनसीमंतिनि जनाः ॥४०॥

प्रचंडार्तिक्षोभप्रमथनकृते प्रातिभसरि-
त्प्रवाहप्रोद्दंडीकरणजलदाय प्रणमताम् ।
प्रदीपाय प्रौढे भवतमसि कामाक्षि चरण-
प्रसादौन्मुख्याय स्पृहयति जनो‌உयं जननि ते ॥४१॥

मरुद्भिः संसेव्या सततमपि चांचल्यरहिता
सदारुण्यं यांती परिणतिदरिद्राणसुषमा ।
गुणोत्कर्षान्मांजीरककलकलैस्तर्जनपटुः
प्रवालं कामाक्ष्याः परिहसति पादाब्जयुगली ॥४२॥

जगद्रक्षादक्षा जलजरुचिशिक्षापटुतरा
समैर्नम्या रम्या सततमभिगम्या बुधजनैः ।
द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी-
तटीसीमाधामा तव जननि कामाक्षि पदयोः ॥४३॥

गिरां दूरौ चोरौ जडिमतिमिराणां कृतजग-
त्परित्राणौ शोणौ मुनिहृदयलीलैकनिपुणौ ।
नखैः स्मेरौ सारौ निगमवचसां खंडितभव-
ग्रहोन्मादौ पादौ तव जननि कामाक्षि कलये ॥४४॥

अविश्रांतं पंकं यदपि कलयन्यावकमयं
निरस्यन्कामाक्षि प्रणमनजुषां पंकमखिलम् ।
तुलाकोटिद्वंदं दधदपि च गच्छन्नतुलतां
गिरां मार्गं पादो गिरिवरसुते लंघयति ते ॥४५॥

प्रवालं सव्रीलं विपिनविवरे वेपयति या
स्फुरल्लीलं बालातपमधिकबालं वदति या ।
रुचिं सांध्यां वंध्यां विरचयति या वर्धयतु सा
शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥४६॥

किरंज्योत्स्नारीतिं नखमुखरुचा हंसमनसां
वितन्वानः प्रीतिं विकचतरुणांभोरुहरुचिः ।
प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते
शरत्कालप्रौढिं शशिशकलचूडप्रियतमे ॥४७॥

नखांकूरस्मेरद्युतिविमलगंगांभसि सुखं
कृतस्नानं ज्ञानामृतममलमास्वाद्य नियतम् ।
उदंचन्मंजीरस्फुरणमणिदीपे मम मनो
मनोज्ञे कामाक्ष्याश्चरणमणिहर्म्ये विहरताम् ॥४८॥

भवांभोधौ नौकां जडिमविपिने पावकशिखा-
ममर्त्येंद्रादीनामधिमुकुटमुत्तंसकलिकाम् ।
जगत्तापे ज्योत्स्नामकृतकवचःपंजरपुटे
शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम् ॥४९॥

परत्मप्राकाश्यप्रतिफलनचुंचुः प्रणमतां
मनोज्ञस्त्वत्पादो मणिमुकुरमुद्रां कलयते ।
यदीयां कामाक्षि प्रकृतिमसृणाः शोधकदशां
विधातुं चेष्ठंते बलरिपुवधूटीकचभराः ॥५०॥

अविश्रांतं तिष्ठन्नकृतकवचःकंदरपुटी-
कुटीरांतः प्रौढं नखरुचिसटालीं प्रकटयन् ।
प्रचंडं खंडत्वं नयतु मम कामाक्षि तरसा
तमोवेतंडेंद्रं तव चरणकंठीरवपतिः ॥५१॥

पुरस्तात्कामाक्षि प्रचुररसमाखंडलपुरी-
पुरंध्रीणां लास्यं तव ललितमालोक्य शनकैः ।
नखश्रीभिः स्मेरा बहु वितनुते नूपुररवै-
श्चमत्कृत्या शंके चरणयुगली चाटुरचनाः ॥५२॥

सरोजं निंदंती नखकिरणकर्पूरशिशिरा
निषिक्ता मारारेर्मुकुटशशिरेखाहिमजलैः ।
स्फुरंती कामाक्षि स्फुटरुचिमये पल्लवचये
तवाधत्ते मैत्रीं पथिकसुदृशा पादयुगली ॥५३॥

नतानां संपत्तेरनवरतमाकर्षणजपः
प्ररोहत्संसारप्रसरगरिमस्तंभनजपः ।
त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः
पटीयान्नः पायात्पदनलिनमंजीरनिनदः ॥५४॥

वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया
पदांभोजन्यासं पशुपरिबृढप्राणदयिते ।
पिबंतो यन्मुद्रां प्रकटमुपकंपापरिसरं
दृशा नानंद्यंते नलिनभवनारायणमुखाः ॥५५॥

प्रणामोद्यद्बृंदारमुकुटमंदारकलिका-
विलोलल्लोलंबप्रकरमयधूमप्रचुरिमा ।
प्रदीप्तः पादाब्जद्युतिविततिपाटल्यलहरी-
कृशानुः कामाक्ष्या मम दहतु संसारविपिनम् ॥५६॥

वलक्षश्रीरृक्षाधिपशिशुसदृक्षैस्तव नखैः
जिघृक्षुर्दक्षत्वं सरसिरुहभिक्षुत्वकरणे ।
क्षणान्मे कामाक्षि क्षपितभवसंक्षोभगरिमा
वचोवैचक्षन्यं चरणयुगली पक्ष्मलयतात् ॥५७॥

समंतात्कामाक्षि क्षततिमिरसंतानसुभगान्
अनंताभिर्भाभिर्दिनमनु दिगंतान्विरचयन् ।
अहंताया हंता मम जडिमदंतावलहरिः
विभिंतां संतापं तव चरणचिंतामणिरसौ ॥५८॥

दधानो भास्वत्ताममृतनिलयो लोहितवपुः
विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् ।
गतौ मंदो गंगाधरमहिषि कामाक्षि भजतां
तमःकेतुर्मातस्तव चरणपद्मो विजयते ॥५९॥

नयंतीं दासत्वं नलिनभवमुख्यानसुलभ-
प्रदानाद्दीनानाममरतरुदौर्भाग्यजननीम् ।
जगज्जन्मक्षेमक्षयविधिषु कामाक्षि पदयो-
र्धुरीणामीष्टे करस्तव भणितुमाहोपुरुषिकाम् ॥६०॥

जनो‌உयं संतप्तो जननि भवचंडांशुकिरणैः
अलब्धवैकं शीतं कणमपि परज्ञानपयसः ।
तमोमार्गे पांथस्तव झटिति कामाक्षि शिशिरां
पदांभोजच्छायां परमशिवजाये मृगयते ॥६१॥

जयत्यंब श्रीमन्नखकिरणचीनांशुकमयं
वितानं बिभ्राणे सुरमुकुटसंघट्टमसृणे ।
निजारुण्यक्षौमास्तरणवति कामाक्षि सुलभा
बुधैः संविन्नारी तव चरणमाणिक्यभवने ॥६२॥

प्रतीमः कामाक्षि स्फुरिततरुणादित्यकिरण-
श्रियो मूलद्रव्यं तव चरणमद्रींद्रतनये ।
सुरेंद्राशामापूरयति यदसौ ध्वांतमखिलं
धुनीते दिग्भागानपि च महसा पाटलयते ॥६३॥

महाभाष्यव्याख्यापटुशयनमारोपयति वा
स्मरव्यापारेर्ष्यापिशुननिटिलं कारयति वा ।
द्विरेफाणामध्यासयति सततं वाधिवसतिं
प्रणम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥६४॥

विवेकांभस्स्रोतस्स्नपनपरिपाटीशिशिरिते
समीभूते शास्त्रस्मरणहलसंकर्षणवशात् ।
सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणो
महासंवित्सस्यप्रकरवरबीजं गिरिसुते ॥६५॥

दधानो मंदारस्तबकपरिपाटीं नखरुचा
वहंदीप्तां शोणांगुलिपटलचांपेयकलिकाम् ।
अशोकोल्लासं नः प्रचुरयतु कामाक्षि चरणो
विकासी वासंतः समय इव ते शर्वदयिते ॥६६॥

नखांशुप्राचुर्यप्रसृमरमरालालिधवलः
स्फुरन्मंजीरोद्यन्मरकतमहश्शैवलयुतः ।
भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो
नदः शोणाभिख्यो नगपतितनूजे विजयते ॥६७॥

धुनानं पंकौघं परमसुलभं कंटककुलैः
विकासव्यासंगं विदधदपराधीनमनिशम् ।
नखेंदुज्योत्स्नाभिर्विशदरुचि कामाक्षि नितराम्
असामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥६८॥

करींद्राय द्रुह्यत्यलसगतिलीलासु विमलैः
पयोजैर्मात्सर्यं प्रकटयति कामं कलयते ।
पदांभोजद्वंद्वं तव तदपि कामाक्षि हृदयं
मुनीनां शांतानां कथमनिशमस्मै स्पृहयते ॥६९॥

निरस्ता शोणिम्ना चरणकिरणानां तव शिवे
समिंधाना संध्यारुचिरचलराजन्यतनये ।
असामर्थ्यादेनं परिभवितुमेतत्समरुचां
सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥७०॥

उपादिक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ
मरालानां शंके मसृणगतिलालित्यसरणौ ।
अतस्ते निस्तंद्रं नियतममुना सख्यपदवीं
प्रपन्नं पाथोजं प्रति दधति कामाक्षि कुतुकम् ॥७१॥

दधानैः संसर्गं प्रकृतिमलिनैः षट्पदकुलैः
द्विजाधीशश्लाघाविधिषु विदधद्भिर्मुकुलताम् ।
रजोमिश्रैः पद्मैर्नियतमपि कामाक्षि पदयोः
विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥७२॥

कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ
विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ ।
मुनींद्राणामंतःकरणशरणौ मंदसरणौ
मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥७३॥

परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयोः
नखश्रीभिर्ज्योत्स्नाकलिततुलयोस्ताम्रतलयोः ।
निलीये कामाक्ष्या निगमनुतयोर्नाकिनतयोः
निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥७४॥

स्वभावादन्योन्यं किसलयमपीदं तव पदं
म्रदिम्ना शोणिम्ना भगवति दधाते सदृशताम् ।
वने पूर्वस्येच्छा सततमवने किं तु जगतां
परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ॥७५॥

कथं वाचालो‌உपि प्रकटमणिमंजीरनिनदैः
सदैवानंदार्द्रान्विरचयति वाचंयमजनान् ।
प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो
मनीषानैर्मल्यं कथमिव नृणां मांसलयते ॥७६॥

चलत्तृष्णावीचीपरिचलनपर्याकुलतया
मुहुर्भ्रांतस्तांतः परमशिववामाक्षि परवान् ।
तितीर्षुः कामाक्षि प्रचुरतरकर्मांबुधिममुं
कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥७७॥

विशुष्यंत्यां प्रज्ञासरिति दुरितग्रीष्मसमय-
प्रभावेण क्षीणे सति मम मनःकेकिनि शुचा ।
त्वदीयः कामाक्षि स्फुरितचरणांभोदमहिमा
नभोमासाटोपं नगपतिसुते किं न कुरुते ॥७८॥

विनम्राणां चेतोभवनवलभीसीम्नि चरण-
प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि ।
असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी
विघूर्णंती शांतिं शलभपरिपाटीव भजते ॥७९॥

विराजंती शुक्तिर्नखकिरणमुक्तामणिततेः
विपत्पाथोराशौ तरिरपि नराणां प्रणमताम् ।
त्वदीयः कामाक्षि ध्रुवमलघुवह्निर्भववने
मुनीनां ज्ञानाग्नेररणिरयमंघिर्विजयते ॥८०॥

समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः
स्तुतो गंधर्वस्त्रीसुललितविपंचीकलरवैः ।
भवत्या भिंदानो भवगिरिकुलं जृंभिततमो-
बलद्रोही मातश्चरणपुरुहूतो विजयते ॥८१॥

वसंतं भक्तानामपि मनसि नित्यं परिलसद्-
घनच्छायापूर्णं शुचिमपि नृणां तापशमनम् ।
नखेंदुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं
नमामः कामाक्ष्याश्चरणमधिकाश्चर्यकरणम् ॥८२॥

कवींद्राणां नानाभणितिगुणचित्रीकृतवचः-
प्रपंचव्यापारप्रकटनकलाकौशलनिधिः ।
अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मुनिजनैः
नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥८३॥

भवत्याः कामाक्षि स्फुरितपदपंकेरुहभुवां
परागाणां पूरैः परिहृतकलंकव्यतिकरैः ।
नतानामामृष्टे हृदयमुकुरे निर्मलरुचि
प्रसन्ने निश्शेषं प्रतिफलति विश्वं गिरिसुते ॥८४॥

तव त्रस्तं पादात्किसलयमरण्यांतरमगात्
परं रेखारूपं कमलममुमेवाश्रितमभूत् ।
जितानां कामाक्षि द्वितयमपि युक्तं परिभवे
विदेशे वासो वा शरणगमनं वा निजरिपोः ॥८५॥

गृहीत्वा याथार्थ्यं निगमवचसां देशिककृपा-
कटाक्षर्कज्योतिश्शमितममताबंधतमसः ।
यतंते कामाक्षि प्रतिदिवसमंतर्द्रढयितुं
त्वदीयं पादाब्जं सुकृतपरिपाकेन सुजनाः ॥८६॥

जडानामप्यंब स्मरणसमये तवच्चरणयोः
भ्रमन्मंथक्ष्माभृद्धुमुघुमितसिंधुप्रतिभटाः ।
प्रसन्नाः कामाक्षि प्रसभमधरस्पंदनकरा
भवंति स्वच्छंदं प्रकृतिपरिपक्का भणितयः ॥८७॥

वहन्नप्यश्रांतं मधुरनिनदं हंसकमसौ
तमेवाधः कर्तुं किमिव यतते केलिगमने ।
भवस्यैवानंदं विदधदपि कामाक्षि चरणो
भवत्यास्तद्द्रोहं भगवति किमेवं वितनुते ॥८८॥

यदत्यंतं ताम्यत्यलसगतिवार्तास्वपि शिवे
तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम् ।
किरीटैः संघट्टं कथमिव सुरौघस्य सहते
मुनींद्राणामास्ते मनसि च कथं सूचिनिशिते ॥८९॥

मनोरंगे मत्के विबुधजनसंमोदजननी
सरागव्यासंगं सरसमृदुसंचारसुभगा ।
मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं
रणन्मंजीरा ते चरणयुगलीनर्तकवधूः ॥९०॥

परिष्कुर्वन्मातः पशुपतिकपर्दं चरणराट्
पराचां हृत्पद्मं परमभणितीनां च मकुटम् ।
भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता-
पराधीनत्वं मे परिमुषितपाथोजमहिमा ॥९१॥

प्रसूनैः संपर्कादमरतरुणीकुंतलभवैः
अभीष्टानां दानादनिशमपि कामाक्षि नमताम् ।
स्वसंगात्कंकेलिप्रसवजनकत्वेन च शिवे
त्रिधा धत्ते वार्तां सुरभिरिति पादो गिरिसुते ॥९२॥

महामोहस्तेनव्यतिकरभयात्पालयति यो
विनिक्षिप्तं स्वस्मिन्निजजनमनोरत्नमनिशम् ।
स रागस्योद्रेकात्सततमपि कामाक्षि तरसा
किमेवं पादो‌உसौ किसलयरुचिं चोरयति ते ॥९३॥

सदा स्वादुंकारं विषयलहरीशालिकणिकां
समास्वाद्य श्रांतं हृदयशुकपोतं जननि मे ।
कृपाजाले फालेक्षणमहिषि कामाक्षि रभसात्
गृहीत्वा रुंधीथारस्तव पदयुगीपंजरपुटे ॥९४॥

धुनानं कामाक्षि स्मरणलवमात्रेण जडिम-
ज्वरप्रौढिं गूढस्थिति निगमनैकुंजकुहरे ।
अलभ्यं सर्वेषां कतिचन लभंते सुकृतिनः
चिरादन्विष्यंतस्तव चरणसिद्धौषधमिदम् ॥९५॥

रणन्मंजीराभ्यां ललितगमनाभ्यां सुकृतिनां
मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा ।
निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं
नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥९६॥

सुरागे राकेंदुप्रतिनिधिमुखे पर्वतसुते
चिराल्लभ्ये भक्त्या शमधनजनानां परिषदा ।
मनोभृंगो मत्कः पदकमलयुग्मे जननि ते
प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम् ॥९७॥

शिवे संविद्रूपे शशिशकलचूडप्रियतमे
शनैर्गत्यागत्या जितसुरवरेभे गिरिसुते ।
यतंते संतस्ते चरणनलिनालानयुगले
सदा बद्धं चित्तप्रमदकरियूथं दृढतरम् ॥९८॥

यशः सूते मातर्मधुरकवितां पक्ष्मलयते
श्रियं दत्ते चित्ते कमपि परिपाकं प्रथयते ।
सतां पाशग्रंथिं शिथिलयति किं किं न कुरुते
प्रपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः ॥९९॥

मनीषां माहेंद्रीं ककुभमिव ते कामपि दशां
प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः ।
यदीये संपर्के धृतरसमरंदा कवयतां
परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥१००॥

पुरा मारारातिः पुरमजयदंब स्तवशतैः
प्रसन्नायां सत्यां त्वयि तुहिनशैलेंद्रतनये ।
अतस्ते कामाक्षि स्फुरतु तरसा कालसमये
समायाते मातर्मम मनसि पादाब्जयुगलम् ॥१०१॥

पदद्वंद्वं मंदं गतिषु निवसंतं हृदि सतां
गिरामंते भ्रांतं कृतकरहितानां परिबृढे ।
जनानामानंदं जननि जनयंतं प्रणमतां
त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥१०२॥

इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं
जपेन्नित्यं भक्त्या निखिलजगदाह्लादजनकम् ।
स विश्वेषां वंद्यः सकलकविलोकैकतिलकः
चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥१०३॥

॥ इति पादारविंदशतकं संपूर्णम् ॥