विदिताखिल शास्त्र सुधा जलधे
महितोपनिषत्-कथितार्थ निधे ।
हृदये कलये विमलं चरणं
भव शंकर देशिक मे शरणम् ॥ १ ॥

करुणा वरुणालय पालय मां
भवसागर दुःख विदून हृदम् ।
रचयाखिल दर्शन तत्त्वविदं
भव शंकर देशिक मे शरणम् ॥ २ ॥

भवता जनता सुहिता भविता
निजबोध विचारण चारुमते ।
कलयेश्वर जीव विवेक विदं
भव शंकर देशिक मे शरणम् ॥ ३ ॥

भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता ।
मम वारय मोह महाजलधिं
भव शंकर देशिक मे शरणम् ॥ ४ ॥

सुकृते‌உधिकृते बहुधा भवतो
भविता समदर्शन लालसता ।
अति दीनमिमं परिपालय मां
भव शंकर देशिक मे शरणम् ॥ ५ ॥

जगतीमवितुं कलिताकृतयो
विचरंति महामाह सच्छलतः ।
अहिमांशुरिवात्र विभासि गुरो
भव शंकर देशिक मे शरणम् ॥ ६ ॥

गुरुपुंगव पुंगवकेतन ते
समतामयतां न हि को‌உपि सुधीः ।
शरणागत वत्सल तत्त्वनिधे
भव शंकर देशिक मे शरणम् ॥ ७ ॥

विदिता न मया विशदैक कला
न च किंचन कांचनमस्ति गुरो ।
दृतमेव विधेहि कृपां सहजां
भव शंकर देशिक मे शरणम् ॥ ८ ॥