अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ।
भूतदयां विस्तारय तारय संसारसागरतः ॥ १ ॥

दिव्यधुनीमकरंदे परिमलपरिभोगसच्चिदानंदे ।
श्रीपतिपदारविंदे भवभयखेदच्छिदे वंदे ॥ २ ॥

सत्यपि भेदापगमे नाथ तवा‌உहं न मामकीनस्त्वम् ।
सामुद्रो हि तरंगः क्वचन समुद्रो न तारंगः ॥ ३ ॥

उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ।
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥ ४ ॥

मत्स्यादिभिरवतारैरवतारवता‌உवता सदा वसुधाम् ।
परमेश्वर परिपाल्यो भवता भवतापभीतो‌உहम् ॥ ५ ॥

दामोदर गुणमंदिर सुंदरवदनारविंद गोविंद ।
भवजलधिमथनमंदर परमं दरमपनय त्वं मे ॥ ६ ॥

नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥