भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते ।
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुक्रिंकरणे ॥ १ ॥
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिम् मनसि वितृष्णाम् ।
यल्लभसे निज कर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ २ ॥
नारी स्तनभर नाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांस वसादि विकारं
मनसि विचिंतया वारं वारम् ॥ ३ ॥
नलिनी दलगत जलमति तरलं
तद्वज्जीवित मतिशय चपलम् ।
विद्धि व्याध्यभिमान ग्रस्तं
लोकं शोकहतं च समस्तम् ॥ ४ ॥
यावद्-वित्तोपार्जन सक्तः
तावन्-निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जर देहे
वार्तां कोஉपि न पृच्छति गेहे ॥ ५ ॥
यावत्-पवनो निवसति देहे
तावत्-पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन् काये ॥ ६ ॥
बाल स्तावत् क्रीडासक्तः
तरुण स्तावत् तरुणीसक्तः ।
वृद्ध स्तावत्-चिंतामग्नः
परमे ब्रह्मणि कोஉपि न लग्नः ॥ ७ ॥
का ते कांता कस्ते पुत्रः
संसारोஉयमतीव विचित्रः ।
कस्य त्वं वा कुत आयातः
तत्वं चिंतय तदिह भ्रातः ॥ ८ ॥
सत्संगत्वे निस्संगत्वं
निस्संगत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥ ९ ॥
वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥ १० ॥
मा कुरु धनजन यौवन गर्वं
हरति निमेषात्-कालः सर्वम् ।
मायामयमिदम्-अखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११ ॥
दिन यामिन्यौ सायं प्रातः
शिशिर वसंतौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुंचत्याशावायुः ॥ १२ ॥
द्वादश मंजरिकाभिर शेषः
कथितो वैया करणस्यैषः ।
उपदेशो भूद्-विद्या निपुणैः
श्रीमच्छंकर भगवच्छरणैः ॥ १३ ॥
का ते कांता धन गत चिंता
वातुल किं तव नास्ति नियंता ।
त्रिजगति सज्जन संगतिरेका
भवति भवार्णव तरणे नौका ॥ १४ ॥
जटिलो मुंडी लुंजित केशः
काषायान्बर बहुकृत वेषः ।
पश्यन्नपि च न पश्यति मूढः
उदर निमित्तं बहुकृत वेषः ॥ १५ ॥
अंगं गलितं पलितं मुंडं
दशन विहीनं जातं तुंडम् ।
वृद्धो याति गृहीत्वा दंडं
तदपि न मुंचत्याशा पिंडम् ॥ १६ ॥
अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुक समर्पित जानुः ।
करतल भिक्षस्-तरुतल वासः
तदपि न मुंचत्याशा पाशः ॥ १७ ॥
कुरुते गंगा सागर गमनं
व्रत परिपालनम्-अथवा दानम् ।
ज्ञान विहीनः सर्वमतेन
भजति न मुक्तिं जन्म शतेन ॥ १८ ॥
सुरमंदिर तरु मूल निवासः
शय्या भूतलम्-अजिनं वासः ।
सर्व परिग्रह भोगत्यागः
कस्य सुखं न करोति विरागः ॥ १९ ॥
योगरतो वा भोगरतो वा
संगरतो वा संगविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नंदति नंदति नंदत्येव ॥ २० ॥
भगवद्गीता किंचिदधीता
गंगा जललव कणिका पीता ।
सकृदपि येन मुरारी समर्चा
क्रियते तस्य यमेन न चर्चा ॥ २१ ॥
पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् ।
इह संसारे बहु दुस्तारे
कृपयाஉपारे पाहि मुरारे ॥ २२ ॥
रथ्या चर्पट विरचित कंथः
पुण्यापुण्य विवर्जित पंथः ।
योगी योग नियोजित चित्तः
रमते बालोन्मत्तवदेव ॥ २३ ॥
कस्त्वं कोஉहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय निज संसारं
सर्वं त्यक्त्वा स्वप्न विचारम् ॥ २४ ॥
त्वयि मयि सर्वत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्-यदि विष्णुत्वम् ॥ २५ ॥
शत्रौ मित्रे पुत्रे बंधौ
मा कुरु यत्नं विग्रह संधौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्-सृज भेदाज्ञानम् ॥ २६ ॥
कामं क्रोधं लोभं मोहं
त्यक्त्वाஉஉत्मानं पश्यति सोஉहम् ।
आत्मज्ञ्नान विहीना मूढाः
ते पच्यंते नरक निगूढाः ॥ २७ ॥
गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपम्-अजस्रम् ।
नेयं सज्जन संगे चित्तं
देयं दीनजनाय च वित्तम् ॥ २८ ॥
सुखतः क्रियते रामाभोगः
पश्चाद्धंत शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुंचति पापाचरणम् ॥ २९ ॥
अर्थमनर्थं भावय नित्यं
नास्ति ततः सुख लेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥ ३० ॥
प्राणायामं प्रत्याहारं
नित्यानित्य विवेक विचारम् ।
जाप्यसमेत समाधि विधानं
कुर्व वधानं महद्-अवधानम् ॥ ३१ ॥
गुरु चरणांभुज निर्भरभक्तः
संसाराद्-अचिराद्-भव मुक्तः ।
सेंदिय मानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम् ॥ ३२ ॥
मूढः कश्चिन वैयाकरणो
डुकृण्करणाध्ययन धुरीणः ।
श्रीमच्छंकर भगवच्चिष्यैः
बोधित आसीच्छोदित करणैः ॥ ३३ ॥