विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।
स्कंदाग्रजोव्ययः पूतो दक्षो‌உध्यक्षो द्विजप्रियः ॥ १ ॥

अग्निगर्वच्छिदिंद्रश्रीप्रदो वाणीप्रदो‌உव्ययः
सर्वसिद्धिप्रदश्शर्वतनयः शर्वरीप्रियः ॥ २ ॥

सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः ।
शुद्धो बुद्धिप्रियश्शांतो ब्रह्मचारी गजाननः ॥ ३ ॥

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदंतश्चतुर्बाहुश्चतुरश्शक्तिसंयुतः ॥ ४ ॥

लंबोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः ।
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ ५ ॥

पाशांकुशधरश्चंडो गुणातीतो निरंजनः ।
अकल्मषस्स्वयंसिद्धस्सिद्धार्चितपदांबुजः ॥ ६ ॥

बीजपूरफलासक्तो वरदश्शाश्वतः कृती ।
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ ७ ॥

श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ ८ ॥

चंद्रचूडामणिः कांतः पापहारी समाहितः ।
अश्रितश्रीकरस्सौम्यो भक्तवांछितदायकः ॥ ९ ॥

शांतः कैवल्यसुखदस्सच्चिदानंदविग्रहः ।
ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ॥ १० ॥

प्रमत्तदैत्यभयदः श्रीकंठो विबुधेश्वरः ।
रमार्चितोविधिर्नागराजयज्ञोपवीतवान् ॥ ११ ॥

स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः ।
स्थूलतुंडो‌உग्रणीर्धीरो वागीशस्सिद्धिदायकः ॥ १२ ॥

दूर्वाबिल्वप्रियो‌உव्यक्तमूर्तिरद्भुतमूर्तिमान् ।
शैलेंद्रतनुजोत्संगखेलनोत्सुकमानसः ॥ १३ ॥

स्वलावण्यसुधासारो जितमन्मथविग्रहः ।
समस्तजगदाधारो मायी मूषकवाहनः ॥ १४ ॥

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ।
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम् ॥ १५ ॥

तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुत्यतः ।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ १६ ॥

दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः ।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥