श्री विघ्नेश्वर षोडश नामावलिः
ॐ सुमुखाय नमः
ॐ एकदंताय नमः
ॐ कपिलाय नमः
ॐ गजकर्णकाय नमः
ॐ लंबोदराय नमः
ॐ विकटाय नमः
ॐ विघ्नराजाय नमः
ॐ गणाधिपाय नमः
ॐ धूम्रकेतवे नमः
ॐ गणाध्यक्षाय नमः
ॐ फालचंद्राय नमः
ॐ गजाननाय नमः
ॐ वक्रतुंडाय नमः
ॐ शूर्पकर्णाय नमः
ॐ हेरंबाय नमः
ॐ स्कंदपूर्वजाय नमः

श्री विघ्नेश्वर षोडशनाम स्तोत्रम्
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लंबोदरश्च विकटो विघ्नराजो गणाधिपः ॥ १ ॥

धूम्र केतुः गणाध्यक्षो फालचंद्रो गजाननः ।
वक्रतुंड श्शूर्पकर्णो हेरंबः स्कंदपूर्वजः ॥ २ ॥

षोडशैतानि नामानि यः पठेत् शृणु यादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे सर्व कार्येषु विघ्नस्तस्य न जायते ॥ ३ ॥