तैत्तिरीयारण्यकम् – ४, प्रपाठकः – १०, अनुवाकः – ४१-४४

ॐ यश्छंद॑सामृष॒भो वि॒श्वरू॑पः । छंदो॒भ्यो‌உध्य॒मृता॓थ्संब॒भूव॑ । स मेंद्रो॑ मे॒धया॓ स्पृणोतु । अ॒मृत॑स्य देव॒धार॑णो भूयासम् । शरी॑रं मे विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा॓भ्यां॒ भूरि॒विश्रु॑वम् । ब्रह्म॑णः को॒शो॑‌உसि मे॒धया पि॑हितः । श्रु॒तं मे॑ गोपाय ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ॐ मे॒धादे॒वी जु॒षमा॑णा न॒ आगा॓द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्य मा॑ना । त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता॓न् बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॓ः । त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑‌உ‌உग॒तश्री॑रु॒त त्वया॓ । त्वया॒ जुष्ट॑श्चि॒त्रं वि॑ंदते वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णो न मेधे ॥

मे॒धां म॒ इंद्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती । मे॒धां मे॑ अ॒श्विना॑वु॒भा-वाध॑त्तां॒ पुष्क॑रस्रजा । अ॒प्स॒रासु॑ च॒ या मे॒धा गं॑ध॒र्वेषु॑ च॒ यन्मनः॑ । दैवीं॓ मे॒धा सर॑स्वती॒ सा मां॓ मे॒धा सु॒रभि॑र्जुषता॒ग्॒ स्वाहा॓ ॥

आमां॓ मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां॓ मे॒धा सु॒प्रती॑का जुषंताम् ॥

मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयींद्र॑ इंद्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥

ॐ हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि । तन्नो॑ हंसः प्रचो॒दया॓त् ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥