कारणपरचिद्रूपा कांचीपुरसीम्नि कामपीठगता ।
काचन विहरति करुणा काश्मीरस्तबककोमलांगलता ॥१॥
कंचन कांचीनिलयं करधृतकोदंडबाणसृणिपाशम् ।
कठिनस्तनभरनम्रं कैवल्यानंदकंदमवलंबे ॥२॥
चिंतितफलपरिपोषणचिंतामणिरेव कांचिनिलया मे ।
चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ॥३॥
कुटिलकचं कठिनकुचं कुंदस्मितकांति कुंकुमच्छायम् ।
कुरुते विहृतिं कांच्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥४॥
पंचशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन ।
कांचीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥५॥
परया कांचीपुरया पर्वतपर्यायपीनकुचभरया ।
परतंत्रा वयमनया पंकजसब्रह्मचारिलोचनया ॥६॥
ऐश्वर्यमिंदुमौलेरैकत्म्यप्रकृति कांचिमध्यगतम् ।
ऐंदवकिशोरशेखरमैदंपर्यं चकास्ति निगमानाम् ॥७॥
श्रितकंपसीमानं शिथिलितपरमशिवधैर्यमहिमानम् ।
कलये पटलिमानं कंचन कंचुकितभुवनभूमानम् ॥८॥
आदृतकांचीनिलयमाद्यामारूढयौवनाटोपाम् ।
आगमवतंसकलिकामानंदाद्वैतकंदलीं वंदे ॥९॥
तुंगाभिरामकुचभरशृंगारितमाश्रयामि कांचिगतम् ।
गंगाधरपरतंत्रं शृंगाराद्वैततंत्रसिद्धांतम् ॥१०॥
कांचीरत्नविभूषां कामपि कंदर्पसूतिकापांगीम् ।
परमां कलामुपासे परशिववामांकपीठिकासीनाम् ॥११॥
कंपातीचराणां करुणाकोरकितदृष्टिपातानाम् ।
केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥१२॥
आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् ।
आरब्धयौवनोत्सवमाम्नायरहस्यमंतरवलंबे ॥१३॥
अधिकांचि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन ।
अनुबद्धं मम मानसमरुणिमसर्वस्वसंप्रदायेन ॥१४॥
अंकितशंकरदेहामंकुरितोरोजकंकणाश्लेषैः ।
अधिकांचि नित्यतरुणीमद्राक्षं कांचिदद्भुतां बालाम् ॥१५॥
मधुरधनुषा महीधरजनुषा नंदामि सुरभिबाणजुषा ।
चिद्वपुषा कांचिपुरे केलिजुषा बंधुजीवकांतिमुषा ॥१६॥
मधुरस्मितेन रमते मांसलकुचभारमंदगमनेन ।
मध्येकांचि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥१७॥
धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् ।
अंबुमयीमिंदुमयीमंबामनुकंपमादिमामीक्षे ॥१८॥
लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकंपम् ।
पीनस्तनभरमीडे मीनध्वजतंत्रपरमतात्पर्यम् ॥१९॥
श्वेता मंथरहसिते शाता मध्ये च वाड्भनोஉतीता ।
शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥२०॥
पुरतः कदा न करवै पुरवैरिविमर्दपुलकितांगलताम् ।
पुनतीं कांचीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥२१॥
पुण्या काஉपि पुरंध्री पुंखितकंदर्पसंपदा वपुषा ।
पुलिनचरी कंपायाः पुरमथनं पुलकनिचुलितं कुरुते ॥२२॥
तनिमाद्वैतवलग्नं तरुणारुणसंप्रदायतनुलेखम् ।
तटसीमनि कंपायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥२३॥
पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कंपायाः ।
अद्राक्षमात्तयौवनमभ्युदयं कंचिदर्धशशिमौलैः ॥२४॥
संश्रितकांचीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे ।
संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥२५॥
मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदंडम् ।
आदृतकांचीखेलनमादिममारुण्यभेदमाकलये ॥२६॥
उररीकृतकांचिपुरीमुपनिषदरविंदकुहरमधुधाराम् ।
उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ॥२७॥
एणशिशुदीर्घलोचनमेनःपरिपंथि संततं भजताम् ।
एकाम्रनाथजीवितमेवंपददूरमेकमवलंबे ॥२८॥
स्मयमानमुखं कांचीभयमानं कमपि देवताभेदम् ।
दयमानं वीक्ष्य मुहुर्वयमानंदामृतांबुधौ मग्नाः ॥२९॥
कुतुकजुषि कांचिदेशे कुमुदतपोराशिपाकशेखरिते ।
कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ॥३०॥
वीक्षेमहि कांचिपुरे विपुलस्तनकलशगरिमपरवशितम् ।
विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ॥३१॥
कुरुविंदगोत्रगात्रं कूलचरं कमपि नौमि कंपायाः ।
कूलंकषकुचकुंभं कुसुमायुधवीर्यसारसंरंभम् ॥३२॥
कुडूमलितकुचकिशोरैः कुर्वाणैः कांचिदेशसौहार्दम् ।
कुंकुमशोणैर्निचितं कुशलपथं शंभुसुकृतसंभारैः ॥३३॥
अंकितकचेन केनचिदंधंकरणौषधेन कमलानाम् ।
अंतःपुरेण शंभोरलंक्रिया काஉपि कल्प्यते कांच्याम् ॥३४॥
ऊरीकरोमि संततमूष्मलफालेन ललितं पुंसा ।
उपकंपमुचितखेलनमुर्वीधरवंशसंपदुन्मेषम् ॥३५॥
अंकुरितस्तनकोरकमंकालंकारमेकचूतपतेः ।
आलोकेमहि कोमलमागमसंलापसारयाथार्थ्यम् ॥३६॥
पुंजितकरुणमुदंचितशिंजितमणिकांचि किमपि कांचिपुरे ।
मंजरितमृदुलहासं पिंजरतनुरुचि पिनाकिमूलधनम् ॥३७॥
लोलहृदयोஉस्ति शंभोर्लोचनयुगलेन लेह्यमानायाम् ।
ललितपरमशिवायां लावण्यामृततरंगमालायाम् ॥३८॥
मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः ।
मंडितकंपातीरैर्मंगलकंदैर्ममास्तु सारूप्यम् ॥३९॥
वदनारविंदवक्षोवामांकतटीवशंवदीभूता ।
पूरुषत्रितये त्रेधा पुरंध्रिरूपा त्वमेव कामाक्षि ॥४०॥
बाधाकरीं भवाब्धेराधाराद्यंबुजेषु विचरंतीम् ।
आधारीकृतकांची बोधामृतवीचिमेव विमृशामः ॥४१॥
कलयाम्यंतः शशधरकलयाஉंकितमौलिममलचिद्वलयाम् ।
अलयामागमपीठीनिलयां वलयांकसुंदरीमंबाम् ॥४२॥
शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे ।
सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ॥४३॥
समया सांध्यमयूखैः समया बुद्धया सदैव शीलितया ।
उमया कांचीरतया न मया लभ्यते किं नु तादात्म्यम् ॥४४॥
जंतोस्तव पदपूजनसंतोषतरंगितस्य कामाक्षि ।
वंधो यदि भवति पुनः सिंधोरंभस्सु बंभ्रमीति शिला ॥४५॥
कुंडलि कुमारि कुटिले चंडि चराचरसवित्रि चामुंडे ।
गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥४६॥
अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः ।
अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥४७॥
शिव शिव पश्यंति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिंबोष्ठम् ॥४८॥
कामपरिपंथिकामिनि कामेश्वरि कामपीठमध्यगते ।
कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥४९॥
मध्येहृदयं मध्येनिटिलं मध्येशिरोஉपि वास्तव्याम् ।
चंडकरशक्रकार्मुकचंद्रसमाभां नमामि कामाक्षीम् ॥५०॥
अधिकांचि केलिलोलैरखिलागमयंत्रतंत्रमयैः ।
अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ॥५१॥
नंदति मम हृदि काचन मंदिरयंता निरंतरं कांचीम् ।
इंदुरविमंडलकुचा बिंदुवियन्नादपरिणता तरुणी ॥५२॥
शंपालतासवर्णं संपादयितुं भवज्वरचिकित्साम् ।
लिंपामि मनसि किंचन कंपातटरोहि सिद्धभैषज्यम् ॥५३॥
अनुमितकुचकाठिन्यामधिवक्षःपीठमंगजन्मरिपोः ।
आनंददां भजे तामानंगब्रह्मतत्वबोधसिराम् ॥५४॥
ऐक्षिषि पाशांकुशधरहस्तांतं विस्मयार्हवृत्तांतम् ।
अधिकांचि निगमवाचां सिद्धांतं शूलपाणिशुद्धांतम् ॥५५॥
आहितविलासभंगीमाब्रह्मस्तंबशिल्पकल्पनया ।
आश्रितकांचीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥५६॥
मूकोஉपि जटिलदुर्गतिशोकोஉपि स्मरति यः क्षणं भवतीम् ।
एको भवति स जंतुर्लोकोत्तरकीर्तिरेव कामाक्षि ॥५७॥
पंचदशवर्णरूपं कंचन कांचीविहारधौरेयम् ।
पंचशरीयं शंभोर्वंचनवैदग्ध्यमूलमवलंबे ॥५८॥
परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् ।
पंचाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ॥५९॥
आदिक्षन्मम गुरुराडादिक्षांताक्षरात्मिकां विद्याम् ।
स्वादिष्ठचापदंडां नेदिष्ठामेव कामपीठगताम् ॥६०॥
तुष्यामि हर्षितस्मरशासनया कांचिपुरकृतासनया ।
स्वासनया सकलजगद्भासनया कलितशंबरासनया ॥६१॥
प्रेमवती कंपायां स्थेमवती यतिमनस्सु भूमवती ।
सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥६२॥
कौतुकिना कंपायां कौसुमचापेन कीलितेनांतः ।
कुलदैवतेन महता कुड्मलमुद्रां धुनोतु नःप्रतिभा ॥६३॥
यूना केनापि मिलद्देहा स्वाहासहायतिलकेन ।
सहकारमूलदेशे संविद्रूपा कुटुंबिनी रमते ॥६४॥
कुसुमशरगर्वसंपत्कोशगृहं भाति कांचिदेशगतम् ।
स्थापितमस्मिन्कथमपि गोपितमंतर्मया मनोरत्नम् ॥६५॥
दग्धषडध्वारण्यं दरदलितकुसुंभसंभृतारुण्यम् ।
कलये नवतारुण्यं कंपातटसीम्नि किमपि कारुण्यम् ॥६६॥
अधिकांचि वर्धमानामतुलां करवाणि पारणामक्ष्णोः ।
आनंदपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ॥६७॥
बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् ।
एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥६८॥
किं वा फलति ममान्यौर्बिंबाधरचुंबिमंदहासमुखी ।
संबाधकरी तमसामंबा जागर्ति मनसि कामाक्षी ॥६९॥
मंचे सदाशिवमये परिशिवमयललितपौष्पपर्यंके ।
अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥७०॥
रक्ष्योஉस्मि कामपीठीलासिकया घनकृपांबुराशिकया ।
श्रुतियुवतिकुंतलीमणिमालिकया तुहिनशैलबालिकया ॥७१॥
लीये पुरहरजाये माये तव तरुणपल्लवच्छाये ।
चरणे चंद्राभरणे कांचीशरणे नतार्तिसंहरणे ॥७२॥
मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये ।
मोदितकंपाकूले मुहुर्मुहुर्मनसि मुमुदिषाஉस्माकम् ॥७३॥
वेदमयीं नादमयीं बिंदुमयीं परपदोद्यदिंदुमयीम् ।
मंत्रमयीं तंत्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥७४॥
पुरमथनपुण्यकोटी पुंजितकविलोकसूक्तिरसधाटी ।
मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥७५॥
कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु ।
अवलोकितमवलंबितमधिकंपातटममेयमस्माभिः ॥७६॥
प्रत्यङ्मुख्या दृष्टया प्रसाददीपांकुरेण कामाक्ष्याः ।
पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ॥७७॥
विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले ।
भारति भैरवि भद्रे शाकिनि शांभवि शिवे स्तुवे भवतीम् ॥७८॥
मालिनि महेशचालिनि कांचीखेलिनि विपक्षकालिनि ते ।
शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोஉस्तु ॥७९॥
देशिक इति किं शंके तत्तादृक्तव नु तरुणिमोन्मेषः ।
कामाक्षि शूलपाणेः कामागमसमयदीक्षायाम् ॥८०॥
वेतंडकुंभडंबरवैतंडिककुचभरार्तमध्याय ।
कुंकुमरुचे नमस्यां शंकरनयनामृताय रचयामः ॥८१॥
अधिकांचितमणिकांचनकांचीमधिकांचि कांचिदद्राक्षम् ।
अवनतजनानुकंपामनुकंपाकूलमस्मदनुकूलाम् ॥८२॥
परिचितकंपातीरं पर्वतराजन्यसुकृतसन्नाहम् ।
परगुरुकृपया वीक्षे परमशिवोत्संगमंगलाभरणम् ॥८३॥
दग्धमदनस्य शंभोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् ।
तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ॥८४॥
मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा ।
विहरति पुलिंदयोषा गुंजाभूषा फणींद्रकृतवेषा ॥८५॥
अंके शुकिनी गीते कौतुकिनी परिसरे च गायकिनी ।
जयसि सविधेஉंब भैरवमंडलिनी श्रवसि शंखकुन्डलिनी ॥८६॥
प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा ।
कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥८७॥
श्रवणचलद्वेतंडा समरोद्दंडा धुतासुरशिखंडा ।
देवि कलितांत्रषंडा धृतनरमुंडा त्वमेव चामुंडा ॥८८॥
उर्वीधरेंद्रकन्ये दर्वीभरितेन भक्तपूरेण ।
गुर्वीमकिंचनार्ति खर्वीकुरुषे त्वमेव कामाक्षि ॥८९॥
ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला ।
क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥९०॥
स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला ।
कनकरुचिचौर्यशीला त्वमंब बाला कराब्जधृतमाला ॥९१॥
विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी ।
कामाक्षि पक्ष्मलाक्षी कलितविपंची विभासि वैरिंची ॥९२॥
कुंकुमरुचिपिंगमसृक्पंकिलमुंडालिमंडितं मातः ।
श्रीकामाक्षि तदीयसंगमकलामंदीभवत्कौतुकः
जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ॥९३॥
कनकमणिकलितभूषां कालायसकलहशीलकांतिकलाम् ।
कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥९४॥
लोहितिमपुंजमध्ये मोहितभुवने मुदा निरीक्षंते ।
वदनं तव कुवयुगलं कांचीसीमां च केஉपि कामाक्षि ॥९५॥
जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः ।
नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ॥९६॥
सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्रेण्या ।
अपवर्गसौधवलभीमारोहंत्यंब केஉपि तव कृपया ॥९७॥
अंतरपि बहिरपि त्वं जंतुततेरंतकांतकृदहंते ।
चिंतितसंतानवतां संततमपि तंतनीषि महिमानम् ॥९८॥
कलमंजुलवागनुमितगलपंजरगतशुकग्रहौत्कंठ्यात् ।
अंब रदनांबरं ते बिंबफलं शंबरारिणा न्यस्तम् ॥९९॥
जय जय जगदंब शिवे जय जय कामाक्षि जय जयाद्रिसुते ।
जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥१००॥
आर्याशतकं भक्त्या पठतामार्याकटाक्षेण ।
निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥१०१॥
॥ इति आर्याशतकं संपूर्णम् ॥