पांडित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयंते गिरां
वैरिंचान्यपि गुंफनानि विगलद्गर्वाणि शर्वाणि ते ।
स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां
वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥१॥

तापिञ्छस्तबकत्विषे तनुभृतां दारिद्र्यमुद्राद्विषे
संसाराख्यतमोमुषे पुररिपोर्वामांकसीमाजुषे ।
कंपातीरमुपेयुषे कवयतां जिह्वाकुटीं जग्मुषे
विश्वत्राणपुषे नमो‌உस्तु सततं तस्मै परंज्योतिषे ॥२॥

ये संध्यारुणयंति शंकरजटाकांतारचन्रार्भकं
सिंदूरंति च ये पुरंदरवधूसीमंतसीमांतरे ।
पुण्य.म् ये परिपक्कयंति भजतां कांचीपुरे माममी
पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥३॥

कामाडंबरपूरया शशिरुचा कम्रस्मितानां त्विषा
कामारेरनुरागसिंधुमधिकं कल्लोलितं तन्वती ।
कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां
कारुण्याकुलमानसा भगवती कंपातटे जृंभते ॥४॥

कामाक्षीणपराक्रमप्रकटनं संभावयंती दृशा
श्यामा क्षीरसहोदरस्मितरुचिप्रक्षालिताशांतरा ।
कामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता
कामाक्षीति विभाति कापि करुणा कंपातटिन्यास्तटे ॥५॥

श्यामा काचन चंद्रिका त्रिभुवने पुण्यात्मनामानने
सीमाशून्यकवित्ववर्षजननी या कापि कादंबिनी ।
मारारातिमनोविमोहनविधौ काचितत्तमःकंदली
कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥६॥

प्रौढध्वांतकदंबके कुमुदिनीपुण्यांकुरं दर्शयन्
ज्योत्स्नासंगमने‌உपि कोकमिथुनं मिश्रं समुद्भावयन् ।
कालिंदीलहरीदशां प्रकटयन्कम्रां नभस्यद्भुतां
कश्चिन्नेत्रमहोत्सवो विजयते कांचीपुरे शूलिनः ॥७॥

तंद्राहीनतमालनीलसुषमैस्तारुण्यलीलागृहैः
तारानाथकिशोरलाञ्छितकचैस्ताम्रारविंदेक्षणैः ।
मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाडिंधमैः
कंपातीरचरैर्घनस्तनभरैः पुण्यांकरैः शांकरैः ॥८॥

नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती
तेजस्संचयपाटवेन किरणानुष्णद्युतेर्मुष्णती ।
कांचीमध्यगतापि दीप्तिजननी विश्वांतरे जृंभते
काचिच्चित्रमहो स्मृतापि तमसां निर्वापिका दीपिका ॥९॥

कांतैः केशरुचां चयैर्भ्रमरितं मंदस्मितैः पुष्पितं
कांत्या पल्लवितं पदांबुरुहयोर्नेत्रत्विषा पत्रितम् ।
कंपातीरवनांतरं विदधती कल्याणजन्मस्थली
कांचीमध्यमहामणिर्विजयते काचित्कृपाकंदली ॥१०॥

राकाचंद्रसमानकांतिवदना नाकाधिराजस्तुता
मूकानामपि कुर्वती सुरधनीनीकाशवाग्वैभवम् ।
श्रीकांचीनगरीविहाररसिका शोकापहंत्री सताम्
एका पुण्यपरंपरा पशुपतेराकारिणी राजते ॥११॥

जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां
लोकानां क्षणमात्रसंस्मरणतः संतापविच्छेदिनी ।
आश्चर्यं बहु खेलनं वितनुते नैश्चल्यमाबिभ्रती
कंपायास्तटसीम्नि कापि तटिनी कारुण्यपाथोमयी ॥१२॥

ऐक्यं येन विरच्यते हरतनौ दंभावपुंभावुके
रेखा यत्कचसीम्नि शेखरदशां नैशाकरी गाहते ।
औन्नत्यं मुहुरेति येन स महान्मेनासखः सानुमान्
कंपातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥१३॥

अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाह्वोश्च मूलं स्पृशन्
उत्तंसेन मुखेन च प्रतिदिनं द्रुह्यन्पयोजन्मने ।
माधुर्येण गिरां गतेन मृदुना हंसांगनां ह्रेपयन्
कांचीसीम्नि चकास्ति को‌உपि कवितासंतानबीजांकुरः ॥१४॥

खंडं चांद्रमसं वतंसमनिशं कांचीपुरे खेलनं
कालायश्छवितस्करीं तनुरुचिं कर्णजपे लोचने ।
तारुण्योष्मनखंपचं स्तनभरं जंघास्पृशं कुंतलं
भाग्यं देशिकसंचितं मम कदा संपादयेदंबिके ॥१५॥

तन्वानं निजकेलिसौधसरणिं नैसर्गिकीणां गिरां
केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् ।
अंहोवंचनचुंचु किंचन भजे कांचीपुरीमंडनं
पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥१६॥

आलोके मुखपंकजे च दधती सौधाकरीं चातुरीं
चूडालंक्रियमाणपंकजवनीवैरागमप्रक्रिया ।
मुग्धस्मेरमुखी घन्सतनतटीमूर्च्छालमध्यांचिता
कांचीसीमनि कामिनी विजयते काचिज्जगन्मोहिनी ॥१७॥

यस्मिन्नंब भवत्कटाक्षरजनी मंदे‌உपि मंदस्मित-
ज्योत्स्नासंस्नपिता भवत्यभिमुखी तं प्रत्यहो देहिनम् ।
द्रक्षामाक्षिकमाधुरीमदभरव्रीडाकरी वैखरी
कामाक्षि स्वयमातनोत्यभिसृतिं वामेक्षणेव क्षणम् ॥१८॥

कालिंदीजलकांतयः स्मितरुचिस्वर्वाहिनीपाथसि
प्रौढध्वांतरुचः स्फुटाधरमहोलौहित्यसंध्योदये ।
मणिक्योपलकुंडलांशुशिखिनि व्यामिश्रधूमश्रियः
कल्याणैकभुवः कटाक्षसुषमाः कामाक्षि राजंति ते ॥१९॥

कलकलरणत्कांची कांचीविभूषणमालिका
कचभरलसच्चंद्रा चंद्रावतंससधर्मिणी ।
कविकुलगिरः श्रावंश्रावं मिलत्पुलकांकुरा
विरचितशिरःकंपा कंपातटे परिशोभते ॥२०॥

सरसवचसां वीची नीचीभवन्मधुमाधुरी
भरितभुवना कीर्तिर्मूर्तिर्मनोभवजित्वरी ।
जननि मनसो योग्यं भोग्यं नृणां तव जायते
कथमिव विना कांचीभूषे कटाक्षतरंगितम् ॥२१॥

भ्रमरितसरित्कूलो नीलोत्पलप्रभया‌உ‌உभया
नतजनतमःखंडी तुंडीरसीम्नि विजृंभते ।
अचलतपसामेकः पाकः प्रसूनशरासन-
प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥२२॥

मधुरवचसो मंदस्मेरा मतंगजगामिनः
तरुणिमजुषस्तापिच्छाभास्तमःपरिपंथिनः ।
कुचभरनताः कुर्युर्भद्रं कुरंगविलोचनाः
कलितकरुणाः कांचीभाजः कपालिमहोत्सवाः ॥२३॥

कमलसुषमाक्ष्यारोहे विचक्षणवीक्षणाः
कुमुदसुकृतक्रीडाचूडालकुंतलबंधुराः ।
रुचिररुचिभिस्तापिच्छश्रीप्रपंचनचुंचवः
पुरविजयिनः कंपातीरे स्फुरंति मनोरथाः ॥२४॥

कलितरतयः कांचीलीलाविधौ कविमंडली-
वचनलहरीवासंतीनां वसंतविभूतयः ।
कुशलविधये भूयासुर्मे कुरंगविलोचनाः
कुसुमविशिखारातेरक्ष्णां कुतूहलविभ्रमाः ॥२५॥

कबलिततमस्कांडास्तुंडीरमंडलमंडनाः
सरसिजवनीसंतानानामरुंतुदशेखराः ।
नयनसरणेर्नेदीयंसः कदा नु भवंति मे
तरुणजलदश्यामाः शंभोस्तपःफलविभ्रमाः ॥२६॥

अचरममिषुं दीनं मीनध्वजस्य मुखश्रिया
सरसिजभुवो यानं म्लानं गतेन च मंजुना ।
त्रिदशसदसामन्नं खिन्नं गिरा च वितन्वती
तिलकयति सा कंपातीरं त्रिलोचनसुंदरी ॥२७॥

जननि भुवने चंक्रम्ये‌உहं कियंतमनेहसं
कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरंभरिः ।
तरुणकरुणे तंद्राशून्ये तरंगय लोचने
नमति मयि ते किंचित्कांचीपुरीमणिदीपिके ॥२८॥

मुनिजनमनःपेटीरत्नं स्फुरत्करुणानटी-
विहरणकलागेहं कांचीपुरीमणिभूषणम् ।
जगति महतो मोहव्याधेर्नृणां परमौषधं
पुरहरदृशां साफल्यं मे पुरः परिजृंभताम् ॥२९॥

मुनिजनमोधाम्ने धाम्ने वचोमयजाह्नवी-
हिमगिरितटप्राग्भारायाक्षराय परात्मने ।
विहरणजुषे कांचीदेशे महेश्वरलोचन-
त्रितयसरसक्रीडासौधांगणाय नमो नमः ॥३०॥

मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषाम्
अमृतलहरीपूरं पारं भवाख्यपयोनिधेः ।
सुचरितफलं कांचीभाजो जनस्य पचेलिमं
हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥३१॥

प्रणमनदिनारंभे कंपानदीसखि तावके
सरसकवितोन्मेषः पूषा सतां समुदंचितः ।
प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्वतीं
नयति तरसा निद्रामुद्रां नगेश्वरकन्यके ॥३२॥

शमितजडिमारंभा कंपातटीनिकटेचरी
निहतदुरितस्तोमा सोमार्धमुद्रितकुंतला ।
फलितसुमनोवाञ्छा पांचायुधी परदेवता
सफलयतु मे नेत्रे गोत्रेश्वरप्रियनंदिनी ॥३३॥

मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया
कुमुदसुषमामैत्रीपात्रीवतंसितकुंतलाम् ।
जगति शमितस्तंभां कंपानदीनिलयामसौ
श्रियति हि गलत्तंद्रा चंद्रावतंससधर्मिणीम् ॥३४॥

परिमलपरीपाकोद्रेकं पयोमुचि कांचने
शिखरिणि पुनर्द्बैधीभावं शशिन्यरुणातपम् ।
अपि च जनयन्कंबोर्लक्ष्मीमनंबुनि को‌உप्यसौ
कुसुमधनुषः कांचीदेशे चकास्ति पराक्रमः ॥३५॥

पुरदमयितुर्वामोत्संगस्थलेन रसज्ञया
सरसकविताभाजा कांचीपुरोदरसीमया ।
तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः
किमिव न तुलामस्मच्चेतो महेश्वरि गाहते ॥३६॥

नयनयुगलीमास्माकीनां कदा नु फलेग्रहीं
विदधति गतौ व्याकुर्वाणा गजेंद्रचमत्क्रियाम् ।
मरतकरुचो माहेशाना घनस्तननम्रिताः
सुकृतविभवाः प्रांचः कांचीवतंसधुरंधराः ॥३७॥

मनसिजयशःपारंपर्यं मरंदझरीसुवां
कविकुलगिरां कंदं कंपानदीतटमंडनम् ।
मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं
पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥३८॥

शिथिलिततमोलीलां नीलारविंदविलोचनां
दहनविलसत्फालां श्रीकामकोटिमुपास्महे ।
करधृतसच्छूलां कालारिचित्तहरां परां
मनसिजकृपालीलां लोलालकामलिकेक्षणाम् ॥३९॥

कलालीलाशाला कविकुलवचःकैरववनी-
शरज्ज्योत्स्नाधारा शशधरशिशुश्लाघ्यमुकुटी ।
पुनीते नः कंपापुलिनतटसौहार्दतरला
कदा चक्षुर्मार्गं कनकगिरिधानुष्कमहिषी ॥४०॥

नमः स्तान्नम्रेभ्यः स्तनगरिमगर्वेण गुरुणा
दधानेभ्यश्चूडाभरणममृतस्यंदि शिशिरम् ।
सदा वास्तवेभ्यः सुविधभुवि कंपाख्यसरिते
यशोव्यापारेभ्यः सुकृतविभवेभ्यो रतिपतेः ॥४१॥

असूयंती काचिन्मरकतरुचो नाकिमुकुटी-
कदंबं चुंबंती चरणनखचंद्रांशुपटलैः ।
तमोमुद्रां विद्रावयतु मम कांचीर्निलयना
हरोत्संगश्रीमन्मणिगृहमहादीपकलिका ॥४२॥

अनाद्यंता काचित्सुजननयनानंदजननी
निरुंधाना कांतिं निजरुचिविलासैर्जलमुचाम् ।
स्मरारेस्तारल्यं मनसि जनयंती स्वयमहो
गलत्कंपा शंपा परिलसति कंपापरिसरे ॥४३॥

सुधाडिंडीरश्रीः स्मितरुचिषु तुंडीरविषयं
परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः ।
स्तनाभ्यामानम्रा स्तबकयतु मे कांक्षिततरुं
दृशामैशानीनां सुकृतफलपांडित्यगरिमा ॥४४॥

कृपाधाराद्रोणी कृपणधिषणानां प्रणमतां
निहंत्री संतापं निगममुकुटोत्तंसकलिका ।
परा कांचीलीलापरिचयवती पर्वतसुता
गिरां नीवी देवी गिरिशपरतंत्रा विजयते ॥४५॥

कवित्वश्रीकंदः सुकृतपरिपाटी हिमगिरेः
विधात्री विश्वेषां विषमशरवीरध्वजपटी ।
सखी कंपानद्याः पदहसितपाथोजयुगली
पुराणो पायान्नः पुरमथनसाम्राज्यपदवी ॥४६॥

दरिद्राणा मध्ये दरदलिततापिच्छसुषमाः
स्तनाभोगक्कांतास्तरुणहरिणांकांकितकचाः ।
हराधीना नानाविबुधमुकुटीचुंबितपदाः
कदा कंपातीरे कथय विहरामो गिरिसुते ॥४७॥

वरीवर्तु स्थेमा त्वयि मम गिरां देवि मनसो
नरीनर्तु प्रौढा वदनकमले वाक्यलहरी ।
चरीचर्तु प्रज्ञाजननि जडिमानः परजने
सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा ॥४८॥

क्षणात्ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः
कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् ।
नरीनर्तु स्वैरं वचनलहरी निर्जरपुरी-
सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥४९॥

पुरस्तान्मे भूयःप्रशमनपरः स्तान्मम रुजां
प्रचारस्ते कंपातटविहृतिसंपादिनि दृशोः ।
इमां याच्ञामूरीकुरु सपदि दूरीकुरु तमः-
परीपाकं मत्कं सपदि बुधलोकं च नय माम् ॥५०॥

उदंचंती कांचीनगरनिलये त्वत्करुणया
समृद्धा वाग्धाटी परिहसितमाध्वी कवयताम् ।
उपादत्ते मारप्रतिभटजटाजूटमुकुटी-
कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥५१॥

श्रियं विद्यां दद्याज्जननि नमतां कीर्तिममितां
सुपुत्रान् प्रादत्ते तव झटिति कामाक्षि करुणा ।
त्रिलोक्यामाधिक्यं त्रिपुरपरिपंथिप्रणयिनि
प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥५२॥

मनःस्तंभं स्तंभं गमयदुपकंपं प्रणमतां
सदा लोलं नीलं चिकुरजितलोलंबनिकरम् ।
गिरां दूरं स्मेरं धृतशशिकिशोरं पशुपतेः
दृशां योग्यं भोग्यं तुहिनगिरिभाग्यं विजयते ॥५३॥

घनश्यामान्कामांतकमहिषि कामाक्षि मधुरान्
दृशां पातानेतानमृतजलशीताननुपमान् ।
भवोत्पाते भीते मयि वितर नाथे दृढभव-
न्मनश्शोके मूके हिमगिरिपताके करुणया ॥५४॥

नतानां मंदानां भवनिगलबंधाकुलधियां
महांध्यां रुंधानामभिलषितसंतानलतिकाम् ।
चरंतीं कंपायास्तटभुवि सवित्रीं त्रिजगतां
स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥५५॥

परा विद्या हृद्याश्रितमदनविद्या मरकत-
प्रभानीला लीलापरवशितशूलायुधमनाः ।
तमःपूरं दूरं चरणनतपौरंदरपुरी-
मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥५६॥

अहंताख्या मत्कं कबलयति हा हंत हरिणी
हठात्संविद्रूपं हरमहिषि सस्यांकुरमसौ ।
कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलैः
इमामुच्चैरुच्चाटय झटिति कामाक्षि कृपया ॥५७॥

बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ
कटाक्षः कामाक्षि प्रकटजडिमक्षोदपटिमा ।
कथंकारं नास्मै करमुकुलचूडालमुकुटा
नमोवाकं ब्रूयुर्नमुचिपरिपंथिप्रभृतयः ॥५८॥

प्रतीचीं पश्यामः प्रकटरुचिनीवारकमणि-
प्रभासध्रीचीनां प्रदलितषडाधारकमलाम् ।
चरंतीं सौषुम्ने पथि परपदेंदुप्रविगल-
त्सुधार्द्रां कामाक्षीं परिणतपरंज्योतिरुदयाम् ॥५९॥

जंभारातिप्रभृतिमुकुटीः पादयोः पीठयंती
गुंफान्वाचां कविजनकृतान्स्वैरमारामयंती ।
शंपालक्ष्मीं मणिगणरुचापाटलैः प्रापयंती
कंपातीरे कविपरिषदां जृंभते भाग्यसीमा ॥६०॥

चंद्रापीडां चतुरवदनां चंचलापांगलीलां
कुंदस्मेरां कुचभरनतां कुंतलोद्धूतभृंगाम् ।
मारारातेर्मदनशिखिनं मांसलं दीपयंतीं
कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे ॥६१॥

कालांभोदप्रकरसुषमां कांतिभिस्तिर्जयंती
कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् ।
कंदर्पारेः प्रियसहचरी कल्मषाणां निहंत्री
कांचीदेशं तिलकयति सा कापि कारुण्यसीमा ॥६२॥

ऊरीकुर्वन्नुरसिजतटे चातुरीं भूधराणां
पाथोजानां नयनयुगले परिपंथ्यं वितन्वन् ।
कंपातीरे विहरति रुचा मोघयन्मेघशैलीं
कोकद्वेषं शिरसि कलयन्को‌உपि विद्याविशेषः ॥६३॥

कांचीलीलापरिचयवती कापि तापिच्छलक्ष्मीः
जाड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः ।
माकंदश्रीर्मधुरकविताचातुरी कोकिलानां
मार्गे भूयान्मम नयनयोर्मान्मथी कापि विद्या ॥६४॥

सेतुर्मातर्मरतकमयो भक्तिभाजां भवाब्धौ
लीलालोला कुवलयमयी मान्मथी वैजयंती ।
कांचीभूषा पशुपतिदृशां कापि कालांजनाली
मत्कं दुःखं शिथिलयतु ते मंजुलापांगमाला ॥६५॥

व्यावृण्वानाः कुवलयदलप्रक्रियावैरमुद्रां
व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् ।
कांचीलीलाविहृतिरसिके कांक्षितं नः क्रियासुः
बंधच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥६६॥

कालांभोदे शशिरुचि दलं कैतकं दर्शयंती
मध्येसौदामिनि मधुलिहां मालिकां राजयंती ।
हंसारावं विकचकमले मंजुमुल्लासयंती
कंपातीरे विलसति नवा कापि कारुण्यलक्ष्मीः ॥६७॥

चित्रं चित्रं निजमृदुतया भर्त्सयन्पल्लवालीं
पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम् ।
जातः शैलान्न तु जलनिधेः स्वैरसंचारशीलः
कांचीभूषा कलयतु शिवं को‌உपि चिंतामणिर्मे ॥६८॥

ताम्रांभोजं जलदनिकटे तत्र बंधूकपुष्पं
तस्मिन्मल्लीकुसुमसुषमां तत्र वीणानिनादम् ।
व्यावृन्वाना सुकृतलहरी कापि कांचिनगर्याम्
ऐशानी सा कलयतितरामैंद्रजालं विलासम् ॥६९॥

आहारांशं त्रिदशसदसामाश्रये चातकानाम्
आकाशोपर्यपि च कलयन्नालयं तुंगमेषाम् ।
कंपातीरे विहरतितरां कामधेनुः कवीनां
मंदस्मेरो मदननिगमप्रक्रियासंप्रदायः ॥७०॥

आर्द्रीभूतैरविरलकृपैरात्तलीलाविलासैः
आस्थापूर्णैरधिकचपलैरंचितांभोजशिल्पैः ।
कांतैर्लक्ष्मीललितभवनैः कांतिकैवल्यसारैः
काश्मल्यं नः कबलयतु सा कामकोटी कटाक्षैः ॥७१॥

आधून्वंत्यै तरलनयनैरांगजीं वैजयंतीम्
आनंदिन्यै निजपदजुषामात्तकांचीपुरायै ।
आस्माकीनं हृदयमखिलैरागमानां प्रपंचैः
आराध्यायै स्पृहयतितरामदिमायै जनन्यै ॥७२॥

दूरं वाचां त्रिदशसदसां दुःखसिंधोस्तरित्रं
मोहक्ष्वेलक्षितिरुहवने क्रूरधारं कुठारम् ।
कंपातीरप्रणयि कविभिर्वर्णितोद्यच्चरित्रं
शांत्यै सेवे सकलविपदां शांकरं तत्कलत्रम् ॥७३॥

खंडीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री-
शुंडीरत्वं निजपदजुषां शून्यतंद्रं दिशंती ।
तुंडीराख्यै महति विषये स्वर्णवृष्टिप्रदात्री
चंडी देवी कलयति रतिं चंद्रचूडालचूडे ॥७४॥

येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा
यद्दृक्कोणे मदननिगमप्राभवं बोभवीति ।
यत्प्रीत्यैव त्रिजगदधिपो जृंभते किंपचानः
कंपातीरे स जयति महान्कश्चिदोजोविशेषः ॥७५॥

धन्या धन्या गतिरिह गिरां देवि कामाक्षि यन्मे
निंद्यां भिंद्यात्सपदि जडतां कल्मषादुन्मिषंतीम् ।
साध्वी माध्वीरसमधुरताभंजिनी मंजुरीतिः
वाणीवेणी झटिति वृणुतात्स्वर्धुनीस्पर्धिनी माम् ॥७६॥

यस्या वाटी हृदयकमलं कौसुमी योगभाजां
यस्याः पीठी सततशिशिरा शीकरैर्माकरंदैः ।
यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य कांची
सा मे सोमाभरणमहिषी साधयेत्कांक्षितानि ॥७७॥

एका माता सकलजगतामीयुषी ध्यानमुद्राम्
एकाम्राधीश्वरचरणयोरेकतानां समिंधे ।
ताटंकोद्यन्मणिगणरुचा ताम्रकर्णप्रदेशा
तारुण्यश्रीस्तबकिततनुस्तापसी कापि बाला ॥७८॥

दंतादंतिप्रकटनकरी दंतिभिर्मंदयानैः
मंदाराणां मदपरिणतिं मथ्नती मंदहासैः ।
अंकूराभ्यां मनसिजतरोरंकितोराः कुचाभ्या-
मंतःकांचि स्फुरति जगतामादिमा कापि माता ॥७९॥

त्रियंबककुटुंबिनीं त्रिपुरसुंदरीमिंदिरां
पुलिंदपतिसुंदरीं त्रिपुरभैरवीं भारतीम् ।
मतंगकुलनायिकां महिषमर्दनीं मातृकां
भणंति विबुधोत्तमा विहृतिमेव कामाक्षि ते ॥८०॥

महामुनिमनोनटी महितरम्यकंपातटी-
कुटीरकविहारिणी कुटिलबोधसंहारिणी ।
सदा भवतु कामिनी सकलदेहिनां स्वामिनी
कृपातिशयकिंकरी मम विभूतये शांकरी ॥८१॥

जडाः प्रकृतिनिर्धना जनविलोचनारुंतुदा
नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते ।
वचस्सु मधुमाधुरीं प्रकटयंति पौरंदरी-
विभूतिषु विडंबनां वपुषि मान्मथीं प्रक्रियाम् ॥८२॥

घन्सतनतटस्फुटस्फुरितकंचुलीचंचली-
कृतत्रिपुरशासना सुजनशीलितोपासना ।
दृशोः सरणिमश्नुते मम कदा नु कांचीपुरे
परा परमयोगिनां मनसि चित्कुला पुष्कला ॥८३॥

कवींद्रहृदयेचरी परिगृहीतकांचीपुरी
निरूढकरुणाझरी निखिललोकरक्षाकरी ।
मनःपथदवीयसी मदनशासनप्रेयसी
महागुणगरीयसी मम दृशो‌உस्तु नेदीयसी ॥८४॥

धनेन न रमामहे खलजनान्न सेवामहे
न चापलमयामहे भवभयान्न दूयामहे ।
स्थिरां तनुमहेतरां मनसि किं च कांचीरत-
स्मरांतककुटुंबिनीचरणपल्लवोपासनाम् ॥८५॥

सुराः परिजना वपुर्मनसिजाय वैरायते
त्रिविष्टपनितंबिनीकुचतटी च केलीगिरिः ।
गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा
कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥८६॥

पवित्रय जगत्त्रयीविबुधबोधजीवातुभिः
पुरत्रयविमर्दिनः पुलककंचुलीदायिभिः ।
भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणैः
निरक्षरशिरोमणिं करुणयैव कामाक्षि माम् ॥८७॥

कदा कलितखेलनाः करुणयैव कांचीपुरे
कलायमुकुलत्विषः शुभकदंबपूर्णांकुराः ।
पयोधरभरालसाः कविजनेषु ते बंधुराः
पचेलिमकृपारसा परिपतंति मार्गे दृशोः ॥८८॥

अशोध्यमचलोद्भवं हृदयनंदनं देहिनाम्
अनर्घमधिकांचि तत्किमपि रत्नमुद्द्योतते ।
अनेन समलंकृता जयति शंकरांकस्थली
कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥८९॥

परामृतझरीप्लुता जयति नित्यमंतश्चरी
भुवामपि बहिश्चरी परमसंविदेकात्मिका ।
महद्भिरपरोक्षिता सततमेव कांचीपुरे
ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥९०॥

तमोविपिनधाविनं सततमेव कांचीपुरे
विहाररसिका परा परमसंविदुर्वीरुहे ।
कटाक्षनिगलैर्दृढं हृदयदुष्टदंतावलं
चिरं नयतु मामकं त्रिपुरवैरिसीमंतिनी ॥९१॥

त्वमेव सति चंडिका त्वमसि देवि चामुंडिका
त्वमेव परमातृका त्वमपि योगिनीरूपिणी ।
त्वमेव किल शांभवी त्वमसि कामकोटी जया
त्वमेव विजया त्वयि त्रिजगदंब किं ब्रूमहे ॥९२॥

परे जननि पार्वति प्रणतपालिनि प्रातिभ-
प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वते ।
त्रियंबककुटुंबिनि त्रिपदसंगिनि त्रीक्षणे
त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥९३॥

मनोमधुकरोत्सवं विदधती मनीषाजुषां
स्वयंप्रभववैखरीविपिनवीथिकालंबिनी ।
अहो शिशिरिता कृपामधुरसेन कंपातटे
चराचरविधायिनी चलति कापि चिन्मंजरी ॥९४॥

कलावति कलाभृतो मुकुटसीम्नि लीलावति
स्पृहावति महेश्वरे भुवनमोहने भास्वति ।
प्रभावति रमे सदा महितरूपशोभावति
त्वरावति परे सतां गुरुकृपांबुधारावति ॥९५॥

त्वयैव जगदंबया भुवनमंडलं सूयते
त्वयैव करुणार्द्रया तदपि रक्षणं नीयते ।
त्वयैव खरकोपया नयनपावके हूयते
त्वयैव किल नित्यया जगति संततं स्थीयते ॥९६॥

चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं
गुणत्रयमयीं जगत्त्रयमयीं त्रिधामामयीम् ।
परापरमयीं सदा दशदिशां निशाहर्मयीं
परां सततसन्मयीं मनसि चिन्मयीं शीलये ॥९७॥

जय जगदंबिके हरकुटुंबिनि वक्त्ररुचा
जितशरदंबुजे घनविडंबिनि केशरुचा ।
परमवलंबनं कुरु सदा पररूपधरे
मम गतसंविदो जडिमडंबरतांडविनः ॥९८॥

भुवनजननि भूषाभूतचंद्रे नमस्ते
कलुषशमनि कंपातीरगेहे नमस्ते ।
निखिलनिगमवेद्ये नित्यरूपे नमस्ते
परशिवमयि पाशच्छेदहस्ते नमस्ते ॥९९॥

क्वणत्कांची कांचीपुरमणिविपंचीलयझरी-
शिरःकंपा कंपावसतिरनुकंपाजलनिधिः ।
घनश्यामा श्यामा कठिनकुचसीमा मनसि मे
मृगाक्षी कामाक्षी हरनटनसाक्षी विहरतात् ॥१००॥

समरविजयकोटी साधकानंदधाटी
मृदुगुणपरिपेटी मुख्यकादंबवाटी ।
मुनिनुतपरिपाटी मोहिताजांडकोटी
परमशिववधूटी पातु मां कामकोटी ॥१०१॥

इमं परवरप्रदं प्रकृतिपेशलं पावनं
परापरचिदाकृतिप्रकटनप्रदीपायितम् ।
स्तवं पठति नित्यदा मनसि भावयन्नंबिकां
जपैरलमलं मखैरधिकदेहसंशोषणैः ॥१०२॥

॥ इति स्तुतिशतकं संपूर्णम् ॥