मोहांधकारनिवहं विनिहंतुमीडे
मूकात्मनामपि महाकवितावदान्यान् ।
श्रीकांचिदेशशिशिरीकृतिजागरूकान्
एकाम्रनाथतरुणीकरुणावलोकान् ॥१॥

मातर्जयंति ममताग्रहमोक्षणानि
माहेंद्रनीलरुचिशिक्षणदक्षिणानि ।
कामाक्षि कल्पितजगत्त्रयरक्षणानि
त्वद्वीक्षणानि वरदानविचक्षणानि ॥२॥

आनंगतंत्रविधिदर्शितकौशलानाम्
आनंदमंदपरिघूर्णितमंथराणाम् ।
तारल्यमंब तव ताडितकर्णसीम्नां
कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥३॥

कल्लोलितेन करुणारसवेल्लितेन
कल्माषितेन कमनीयमृदुस्मितेन ।
मामंचितेन तव किंचन कुंचितेन
कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥४॥

साहाय्यकं गतवती मुहुरर्जनस्य
मंदस्मितस्य परितोषितभीमचेताः ।
कामाक्षि पांडवचमूरिव तावकीना
कर्णांतिकं चलति हंत कटाक्षलक्ष्मीः ॥५॥

अस्तं क्षणान्नयतु मे परितापसूर्यम्
आनंदचंद्रमसमानयतां प्रकाशम् ।
कालांधकारसुषुमां कलयंदिगंते
कामाक्षि कोमलकटाक्षनिशागमस्ते ॥६॥

ताटांकमौक्तिकरुचांकुरदंतकांतिः
कारुण्यहस्तिपशिखामणिनाधिरूढः ।
उन्मूलयत्वशुभपादपमस्मदीयं
कामाक्षि तावककटाक्षमतंगजेतंद्रः ॥७॥

छायाभरणे जगतां परितापहारी
ताटंकरत्नमणितल्लजपल्लवश्रीः ।
कारुण्यनाम विकिरन्मकरंदजालं
कामाक्षि राजति कटाक्षसुरद्रुमस्ते ॥८॥

सूर्याश्रयप्रणयिनी मणिकुंडलांशु-
लौहित्यकोकनदकाननमाननीया ।
यांती तव स्मरहराननकांतिसिंधुं
कामाक्षि राजति कटाक्षकलिंदकन्या ॥९॥

प्राप्नोति यं सुकृतिनं तव पक्षपातात्
कामाक्षि वीक्षणविलासकलापुरंध्री ।
सद्यस्तमेव किल मुक्तिवधूर्वृणीते
तस्मान्नितांतमनयोरिदमैकमत्यम् ॥१०॥

यांती सदैव मरुतामनुकूलभावं
भ्रूवल्लिशक्रधनुरुल्लसिता रसार्द्रा ।
कामाक्षि कौतुकतरंगितनीलकंठा
कादंबिनीव तव भाति कटाक्षमाला ॥११॥

गंगांभसि स्मितमये तपनात्मजेव
गंगाधरोरसि नवोत्पलमालिकेव ।
वक्त्रप्रभासरसि शैवलमंडलीव
कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥१२॥

संस्कारतः किमपि कंदलितान् रसज्ञ-
केदारसीम्नि सुधियामुपभोगयोग्यान् ।
कल्याणसूक्तिलहरीकलमांकुरान्नः
कामाक्षि पक्ष्मलयतु त्वदपांगमेघः ॥१३॥

चांचल्यमेव नियतं कलयन्प्रकृत्या
मालिन्यभूः श्रतिपथाक्रमजागरूकः ।
कैवल्यमेव किमु कल्पयते नतानां
कामाक्षि चित्रमपि ते करुणाकटाक्षः ॥१४॥

संजीवने जननि चूतशिलीमुखस्य
संमोहने शशिकिशोरकशेखरस्य ।
संस्तंभने च ममताग्रहचेष्टितस्य
कामाक्षि वीक्षणकला परमौषधं ते ॥१५॥

नीलो‌உपि रागमधिकं जनयन्पुरारेः
लोलो‌உपि भक्तिमधिकां दृढयन्नराणाम् ।
वक्रो‌உपि देवि नमतां समतां वितन्वन्
कामाक्षि नृत्यतु मयि त्वदपांगपातः ॥१६॥

कामद्रुहो हृदययंत्रणजागरूका
कामाक्षि चंचलदृगंचलमेखला ते ।
आश्चर्यमंब भजतां झटिति स्वकीय-
संपर्क एव विधुनोति समस्तबंधान् ॥१७॥

कुंठीकरोतु विपदं मम कुंचितभ्रू-
चापांचितः श्रितविदेहभवानुरागः ।
रक्षोपकारमनिशं जनयंजगत्यां
कामाक्षि राम इव ते करुणाकटाक्षः ॥१८॥

श्रीकामकोटि शिवलोचनशोषितस्य
शृंगारबीजविभवस्य पुनःप्ररोहे ।
प्रेमांभसार्द्रमचिरात्प्रचुरेण शंके
केदारमंब तव केवलदृष्टिपातम् ॥१९॥

माहात्म्यशेवधिरसौ तव दुर्विलंघ्य-
संसारविंध्यगिरिकुंठनकेलिचुंचुः ।
धैर्यांबुधिं पशुपतेश्चुलकीकरोति
कामाक्षि वीक्षणविजृंभणकुंभजन्मा ॥२०॥

पीयूषवर्षवशिशिरा स्फुटदुत्पलश्री-
मैत्री निसर्गमधुरा कृततारकाप्तिः ।
कामाक्षि संश्रितवती वपुरष्टमूर्तेः
ज्योत्स्नायते भगवति त्वदपांगमाला ॥२१॥

अंब स्मरप्रतिभटस्य वपुर्मनोज्ञम्
अंभोजकाननमिवांचितकंटकाभम् ।
भृंगीव चुंबति सदैव सपक्षपाता
कामाक्षि कोमलरुचिस्त्वदपांगमाला ॥२२॥

केशप्रभापटलनीलवितानजाले
कामाक्षि कुंडलमणिच्छविदीपशोभे ।
शंके कटाक्षरुचिरंगतले कृपाख्या
शैलूषिका नटति शंकरवल्लभे ते ॥२३॥

अत्यंतशीतलमतंद्रयतु क्षणार्धम्
अस्तोकविभ्रममनंगविलासकंदम् ।
अल्पस्मितादृतमपारकृपाप्रवाहम्
अक्षिप्ररोहमचिरान्मयि कामकोटि ॥२४॥

मंदाक्षरागतरलीकृतिपारतंत्र्यात्
कामाक्षि मंथरतरां त्वदपांगडोलाम् ।
आरुह्य मंदमतिकौतुकशालि चक्षुः
आनंदमेति मुहुरर्धशशांकमौलेः ॥२५॥

त्रैयंबकं त्रिपुरसुंदरि हर्म्यभूमि-
रंगं विहारसरसी करुणाप्रवाहः ।
दासाश्च वासवमुखाः परिपालनीयं
कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥२६॥

वागीश्वरी सहचरी नियमेन लक्ष्मीः
भ्रूवल्लरीवशकरी भुवनानि गेहम् ।
रूपं त्रिलोकनयनामृतमंब तेषां
कामाक्षि येषु तव वीक्षणपारतंत्री ॥२७॥

माहेश्वरं झटिति मानसमीनमंब
कामाक्षि धैर्यजलधौ नितरां निमग्नम् ।
जालेन शृंखलयति त्वदपांगनाम्ना
विस्तारितेन विषमायुधदाशको‌உसौ ॥२८॥

उन्मथ्य बोधकमलाकारमंब जाड्य-
स्तंबेरमं मम मनोविपिने भ्रमंतम् ।
कुंठीकुरुष्व तरसा कुटिलाग्रसीम्ना
कामाक्षि तावककटाक्षमहांकुशेन ॥२९॥

उद्वेल्लितस्तबकितैर्ललितैर्विलासैः
उत्थाय देवि तव गाढकटाक्षकुंजात् ।
दूरं पलाययतु मोहमृगीकुलं मे
कामाक्षि स्तवरमनुग्रहकेसरींद्रः ॥३०॥

स्नेहादृतां विदलितोत्पलकंतिचोरां
जेतारमेव जगदीश्वरि जेतुकामः ।
मानोद्धतो मकरकेतुरसौ धुनीते
कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥३१॥

श्रौतीं व्रजन्नपि सदा सरणिं मुनीनां
कामाक्षि संततमपि स्मृतिमार्गगामी ।
कौटिल्यमंब कथमस्थिरतां च धत्ते
चौर्यं च पंकजरुचां त्वदपांगपातः ॥३२॥

नित्यं श्रेतुः परिचितौ यतमानमेव
नीलोत्पलं निजसमीपनिवासलोलम् ।
प्रीत्यैव पाठयति वीक्षणदेशिकेंद्रः
कामाक्षी किंतु तव कालिमसंप्रदायम् ॥३३॥

भ्रांत्वा मुहुः स्तबकितस्मितफेनराशौ
कामाक्षि वक्त्ररुचिसंचयवारिराशौ ।
आनंदति त्रिपुरमर्दननेत्रलक्ष्मीः
आलंब्य देवि तव मंदमपांगसेतुम् ॥३४॥

श्यामा तव त्रिपुरसुंदरि लोचनश्रीः
कामाक्षि कंदलितमेदुरतारकांतिः ।
ज्योत्स्नावती स्मितरुचापि कथं तनोति
स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥३५॥

कालांजनं च तव देवि निरीक्षणं च
कामाक्षि साम्यसरणिं समुपैति कांत्या ।
निश्शेषनेत्रसुलभं जगतीषु पूर्व-
मन्यत्त्रिनेत्रसुलभं तुहिनाद्रिकन्ये ॥३६॥

धूमांकुरो मकरकेतनपावकस्य
कामाक्षि नेत्ररुचिनीलिमचातुरी ते ।
अत्यंतमद्भुतमिदं नयनत्रयस्य
हर्षोदयं जनयते हरुणांकमौलेः ॥३७॥

आरभ्भलेशसमये तव वीक्षणस्स
कामाक्षि मूकमपि वीक्षणमात्रनम्रम् ।
सर्वज्ञता सकललोकसमक्षमेव
कीर्तिस्वयंवरणमाल्यवती वृणीते ॥३८॥

कालांबुवाह उव ते परितापहारी
कामाक्षि पुष्करमधःकुरुते कटाख़्षः ।
पूर्वः परं क्षणरुचा समुपैति मैत्री-
मन्यस्तु स.ततरुचिं प्रकटीकरोति ॥३९॥

सूक्ष्मे‌உपि दुर्गमतरे‌உपि गुरुप्रसाद-
साहाय्यकेन विचरन्नपवर्गमार्गे ।
संसारपंकनिचये न पतत्यमूं ते
कामाक्षि गाढमवलंब्य कटाक्षयष्टिम् ॥४०॥

कामाक्षि संततमसौ हरिनीलरत्न-
स्तंभे कटाक्षरुचिपुंजमये भवत्याः ।
बद्धो‌உपि भक्तिनिगलैर्मम चित्तहस्ती
स्तंभं च बंधमपि मुंचति हंत चित्रम् ॥४१॥

कामाक्षि काष्णर्यमपि संततमंजनं च
बिभ्रन्निसर्गतरलो‌உपि भवत्कटाक्षः ।
वैमल्यमन्वहमनंजनता च भूयः
स्थैर्यं च भक्तहृदयाय कथं ददाति ॥४२॥

मंदस्मितस्तबकितं मणिकुंडलांशु-
स्तोमप्रवालरुचिरं शिशिरीकृताशम् ।
कामाक्षि राजति कटाक्षरुचेः कदंबम्
उद्यानमंब करुणाहरिणेक्षणायाः ॥४३॥

कामाक्षि तावककटाक्षमहेंद्रनील-
सिंहासनं श्रितवतो मकरध्वजस्य ।
साम्राज्यमंगलविधौ मुणिकुंडलश्रीः
नीराजनोत्सवतरंगितदीपमाला ॥४४॥

मातः क्षणं स्नपय मां तव वीक्षितेन
मंदाक्षितेन सुजनैरपरोक्षितेन ।
कामाक्षि कर्मतिमिरोत्करभास्करेण
श्रेयस्करेण मधुपद्युतितस्करेण ॥४५॥

प्रेमापगापयसि मज्जनमारचय्य
युक्तः स्मितांशुकृतभस्मविलेपनेन ।
कामाक्षि कुंडलमणिद्युतिभिर्जटालः
श्रीकंठमेव भजते तव दृष्टिपातः ॥४६॥

कैवल्यदाय करुणारसकिंकराय
कामाक्षि कंदलितविभ्रमशंकराय ।
आलोकनाय तव भक्तशिवंकराय
मातर्नमो‌உस्तु परतंत्रितशंकराय ॥४७॥

साम्राज्यमंगलविधौ मकरध्वजस्य
लोलालकालिकृततोरणमाल्यशोभे ।
कामेश्वरि प्रचलदुत्पलवैजयंती-
चातुर्यमेति तव चंचलदृष्टिपातः ॥४८॥

मार्गेण मंजुकचकांतितमोवृतेन
मंदायमानगमना मदनातुरासौ ।
कामाक्षि दृष्टिरयते तव शंकराय
संकेतभूमिमचिरादभिसारिकेव ॥४९॥

व्रीडनुवृत्तिरमणीकृतसाहचर्या
शैवालितां गलरुचा शशिशेखरस्य ।
कामाक्षि कांतिसरसीं त्वदपांगलक्ष्मीः
मंदं समाश्रयति मज्जनखेलनाय ॥५०॥

काषायमंशुकमिव प्रकटं दधानो
माणिक्यकुंडलरुचिं ममताविरोधी ।
श्रुत्यंतसीमनि रतः सुतरां चकास्ति
कामाक्षि तावककटाक्षयतीश्वरो‌உसौ ॥५१॥

पाषाण एव हरिनीलमणिर्दिनेषु
प्रम्लनतां कुवलयं प्रकटीकरोति ।
नौमित्तिको जलदमेचकिमा ततस्ते
कामाक्षि शून्यमुपमनमपांगलक्ष्म्याः ॥५२॥

शृंगारविभ्रमवती सुतरां सलज्जा
नासाग्रमौक्तिकरुचा कृतमंदहासा ।
श्यामा कटाक्षसुषमा तव युक्तमेतत्
कामाक्षि चुंबति दिगंबरवक्त्रबिंबम् ॥५३॥

नीलोत्पलेन मधुपेन च दृष्टिपातः
कामाक्षि तुल्य इति ते कथमामनंति ।
शैत्येन निंदयति यदन्वहमिंदुपादान्
पाथोरुहेण यदसौ कलहायते च ॥५४॥

ओष्ठप्रभापटलविद्रुममुद्रिते ते
भ्रूवल्लिवीचिसुभगे मुखकांतिसिंधौ ।
कामाक्षि वारिभरपूरणलंबमान-
कालांबुवाहसरणिं लभते कटाक्षः ॥५५॥

मंदस्मितैर्धवलिता मणिकुंडलांशु-
संपर्कलोहितरुचिस्त्वदपांगधारा ।
कामाक्षि मल्लिकुसुमैर्नवपल्लवैश्च
नीलोत्पलैश्च रचितेव विभाति माला ॥५६॥

कामाक्षि शीतलकृपारसनिर्झरांभः-
संपर्कपक्ष्मलरुचिस्त्वदपांगमाला ।
गोभिः सदा पुररिपोरभिलष्यमाणा
दूर्वाकदंबकविडंबनमातनोति ॥५७॥

हृत्पंकजं मम विकासयतु प्रमुष्ण-
न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा ।
दोषानुषंगजडतां जगतां धुनानः
कामाक्षि वीक्षणविलासदिनोदयस्ते ॥५८॥

चक्षुर्विमोहयति चंद्रविभूषणस्य
कामाक्षि तावककटाक्षतमःप्ररोहः ।
प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां
प्राकाश्यमेव नयतीति परं विचित्रम् ॥५९॥

कामाक्षि वीक्षणरुचा युधि निर्जितं ते
नीलोत्पलं निरवशेषगताभिमानम् ।
आगत्य तत्परिसरं श्रवणवतंस-
व्योजेन नूनमभयार्थनमातनोति ॥६०॥

आश्चर्यमंब मदानाभ्युदयावलंबः
कामाक्षि चंचलनिरीक्षणविभ्रमस्ते ।
धैर्यं विधूय तनुते हृदि रागबंधं
शंभोस्तदेव विपरीततया मुनीनाम् ॥६१॥

जंतोः सकृत्प्रणमतो जगदीड्यतां च
तेजास्वितां च निशितां च मतिं सभायाम् ।
कामाक्षि माक्षिकझरीमिव वैखरीं च
लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते ॥६२॥

कादंबिनी किमयते न जलानुषंगं
भृंगावली किमुररीकुरुते न पद्मम् ।
किं वा कलिंदतनया सहते न भंगं
कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥६३॥

काकोलपावकतृणीकरणे‌உपि दक्षः
कामाक्षि बालकसुधाकरशेखरस्य ।
अत्यंतशीतलतमो‌உप्यनुपारतं ते
चित्तं विमोहयति चित्रमयं कटाक्षः ॥६४॥

कार्पण्यपूरपरिवर्धितमंब मोह-
कंदोद्गतं भवमयं विषपादपं मे ।
तुंगं छिनत्तु तुहिनाद्रिसुते भवत्याः
कांचीपुरेश्वरि कटाक्षकुठारधारा ॥६५॥

कामाक्षि घोरभवरोगचिकित्सनार्थ-
मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात् ।
तत्रापि देवि लभते सुकृती कदाचि-
दन्यस्य दुर्लभमपांगमहौषधं ते ॥६६॥

कामाक्षि देशिककृपांकुरमाश्रयंतो
नानातपोनियमनाशितपाशबंधाः ।
वासालयं तव कटाक्षममुं महांतो
लब्ध्वा सुखं समाधियो विचरंति लोके ॥६७॥

साकूतसंलपितसंभृतमुग्धहासं
व्रीडानुरागसहचारि विलोकनं ते ।
कामाक्षि कामपरिपंथिनि मारवीर-
साम्राज्यविभ्रमदशां सफलीकरोति ॥६८॥

कामाक्षि विभ्रमबलैकनिधिर्विधाय
भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् ।
स्वाधीनतां तव निनाय शशांकमौले-
रंगार्धराज्यसुखलाभमपांगवीरः ॥६९॥

कामांकुरैकनिलयस्तव दृष्टिपातः
कामाक्षि भक्तमनसां प्रददातु कामान् ।
रागान्वितः स्वयमपि प्रकटीकरोति
वैराग्यमेव कथमेष महामुनीनाम् ॥७०॥

कालांबुवाहनिवहैः कलहायते ते
कामाक्षि कालिममदेन सदा कटाक्षः ।
चित्रं तथापि नितराममुमेव दृष्ट्वा
सोत्कंठ एव रमते किल नीलकंठः ॥७१॥

कामाक्षि मन्मथरिपुं प्रति मारताप-
मोहांधकारजलदागमनेन नृत्यन् ।
दुष्कर्मकंचुकिकुलं कबलीकरोतु
व्यामिश्रमेचकरुचिस्त्वदपांगकेकी ॥७२॥

कामाक्षि मन्मथरिपोरवलोकनेषु
कांतं पयोजमिव तावकमक्षिपातम् ।
प्रेमागमो दिवसवद्विकचीकरोति
लज्जाभरो रजनिवन्मुकुलीकरोति ॥७३॥

मूको विरिंचति परं पुरुषः कुरूपः
कंदर्पति त्रिदशराजति किंपचानः ।
कामाक्षि केवलमुपक्रमकाल एव
लीलातरंगितकटाक्षरुचः क्षणं ते ॥७४॥

नीलालका मधुकरंति मनोज्ञनासा-
मुक्तारुचः प्रकटकंदबिसांकुरंति ।
कारुण्यमंब मकरंदति कामकोटि
मन्ये ततः कमलमेव विलोचनं ते ॥७५॥

आकांक्ष्यमाणफलदानविचक्षणायाः ।
कामाक्षि तावककटाक्षककामधेनोः ।
संपर्क एव कथमंब विमुक्तपाश-
बंधाः स्फुटं तनुभृतः पशुतां त्यजंति ॥७६॥

संसारघर्मपरितापजुषां नराणां
कामाक्षि शीतलतराणि तवेक्षितानि ।
चंद्रातपंति घनचंदनकर्दमंति
मुक्तागुणंति हिमवारिनिषेचनंति ॥७७॥

प्रेमांबुराशिसततस्नपितानि चित्रं
कामाक्षि तावककटाक्षनिरीक्षणानि ।
संधुक्षयंति मुहुरिंधनराशिरीत्या
मारद्रुहो मनसि मन्मथचित्रभानुम् ॥७८॥

कालांजनप्रतिभटं कमनीयकांत्या
कंदर्पतंत्रकलया कलितानुभावम् ।
कांचीविहाररसिके कलुषार्तिचोरं
कल्लोलयस्व मयि ते करुणाकटाक्षम् ॥७९॥

क्रांतेन मन्मथदेन विमोह्यमान-
स्वांतेन चूततरुमूलगतस्य पुंसः ।
कांतेन किंचिदवलोकय लोचनस्य
प्रांतेन मां जननि कांचिपुरीविभूषे ॥८०॥

कामाक्षि को‌உपि सुजनास्त्वदपांगसंगे
कंठेन कंदलितकालिमसंप्रदायाः ।
उत्तंसकल्पितचकोरकुटुंबपोषा
नक्तंदिवसप्रसवभूनयना भवंति ॥८१॥

नीलोत्पलप्रसवकांतिनिर्दशनेन
कारुण्यविभ्रमजुषा तव वीक्षणेन ।
कामाक्षि कर्मजलधेः कलशीसुतेन
पाशत्रयाद्वयममी परिमोचनीयाः ॥८२॥

अत्यंतचंचलमकृत्रिममंजनं किं
झंकारभंगिरहिता किमु भृंगमाला ।
धूमांकुरः किमु हुताशनसंगहीनः
कामाक्षि नेत्ररुचिनीलिमकंदली ते ॥८३॥

कामाक्षि नित्यमयमंजलिरस्तु मुक्ति-
बीजाय विभ्रममदोदयघूर्णिताय ।
कंदर्पदर्पपुनरुद्भवसिद्धिदाय
कल्याणदाय तव देवि दृगंचलाय ॥८४॥

दर्पांकुरो मकरकेतनविभ्रमाणां
निंदांकुरो विदलितोत्पलचातुरीणाम् ।
दीपांकुरो भवतमिस्रकदंबकानां
कामाक्षि पालयतु मां त्वदपांगपातः ॥८५॥

कैवल्यदिव्यमणिरोहणपर्वतेभ्यः
कारुण्यनिर्झरपयःकृतमंजनेभ्यः ।
कामाक्षि किंकरितशंकरमानसेभ्य-
स्तेभ्यो नमो‌உस्तु तव वीक्षणविभ्रमेभ्यः ॥८६॥

अल्पीय एव नवमुत्पलमंब हीना
मीनस्य वा सरणिरंबुरुहां च किं वा ।
दूरे मृगीदृगसमंजसमंजनं च
कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥८७॥

मिश्रीभवद्गरलपंकिलशंकरोरस्-
सीमांगणे किमपि रिंखणमादधानः ।
हेलावधूतललितश्रवणोत्पलो‌உसौ
कामाक्षि बाल इव राजति ते कटाक्षः ॥८८॥

प्रौढिकरोति विदुषां नवसूक्तिधाटी-
चूताटवीषु बुधकोकिललाल्यमानम् ।
माध्वीरसं परिमलं च निरर्गलं ते
कामाक्षि वीक्षणविलासवसंतलक्ष्मीः ॥८९॥

कूलंकषं वितनुते करुणांबुवर्षी
सारस्वतं सुकृतिनः सुलभं प्रवाहम् ।
तुच्छीकरोति यमुनांबुतरंगभंगीं
कामाक्षि किं तव कटाक्षमहांबुवाहः ॥९०॥

जगर्ति देवि करुणाशुकसुंदरी ते
ताटंकरत्नरुचिदाडिमखंडशोणे ।
कामाक्षि निर्भरकटाक्षमरीचिपुंज-
माहेंद्रनीलमणिपंजरमध्यभागे ॥९१॥

कामाक्षि सत्कुवलयस्य सगोत्रभावा-
दाक्रामति श्रुतिमसौ तव दृष्टिपातः ।
किंच स्फुटं कुटिलतां प्रकटीकरोति
भ्रूवल्लरीपरिचितस्य फलं किमेतत् ॥९२॥

एषा तवाक्षिसुषमा विषमायुधस्य
नाराचवर्षलहरी नगराजकन्ये ।
शंके करोति शतधा हृदि धैर्यमुद्रां
श्रीकामकोटि यदसौ शिशिरांशुमौलेः ॥९३॥

बाणेन पुष्पधनुषः परिकल्प्यमान-
त्राणेन भक्तमनसां करुणाकरेण ।
कोणेन कोमलदृशस्तव कामकोटि
शोणेन शोषय शिवे मम शोकसिंधुम् ॥९४॥

मारद्रुहा मुकुटसीमनि लाल्यमाने
मंदाकिनीपयसि ते कुटिलं चरिष्णुः ।
कामाक्षि कोपरभसाद्वलमानमीन-
संदेहमंकुरयति क्षणमक्षिपातः ॥९५॥

कामाक्षि संवलितमौक्तिककुंडलांशु-
चंचत्सितश्रवणचामरचातुरीकः ।
स्तंभे निरंतरमपांगमये भवत्या
बद्धश्चकास्ति मकरध्वजमत्तहस्ती ॥९६॥

यावत्कटाक्षरजनीसमयागमस्ते
कामाक्षि तावदचिरान्नमतां नराणाम् ।
आविर्भवत्यमृतदीधितिबिंबमंब
संविन्मयं हृदयपूर्वगिरींद्रशृंगे ॥९७॥

कामाक्षि कल्पविटपीव भवत्कटाक्षो
दित्सुः समस्तविभवं नमतां नराणाम् ।
भृंगस्य नीलनलिनस्य च कांतिसंप-
त्सर्वस्वमेव हरतीति परं विचित्रम् ॥९८॥

अत्यंतशीतलमनर्गलकर्मपाक-
काकोलहारि सुलभं सुमनोभिरेतत् ।
पीयूषमेव तव वीक्षणमंब किंतु
कामाक्षि नीलमिदमित्ययमेव भेदः ॥९९॥

अज्ञातभक्तिरसमप्रसरद्विवेक-
मत्यंतगर्वमनधीतसमस्तशास्त्रम् ।
अप्राप्तसत्यमसमीपगतं च मुक्तेः
कामाक्षि नैव तव स्पृहयति दृष्टिपातः ॥१००॥

(कामाक्षि मामवतु ते करुणाकटाक्षः)
पातेन लोचनरुचेस्तव कामकोटि
पोतेन पतकपयोधिभयातुराणाम् ।
पूतेन तेन नवकांचनकुंडलांशु-
वीतेन शीतलय भूधरकन्यके माम् ॥१०१॥

॥ इति कटाक्षशतकं संपूर्णम् ॥