मार्कंडेय उवाच

नारायणं परब्रह्म सर्वकारण कारकं
प्रपद्ये वेंकटेशाख्यां तदेव कवचं मम

सहस्रशीर्षा पुरुषो वेंकटेशश्शिरो वतु
प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः

आकाशराट् सुतानाथ आत्मानं मे सदावतु
देवदेवोत्तमोपायाद्देहं मे वेंकटेश्वरः

सर्वत्र सर्वकालेषु मंगांबाजानिश्वरः
पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु

य एतद्वज्रकवचमभेद्यं वेंकटेशितुः
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः

इति श्री वेंकटेस्वर वज्रकवचस्तोत्रं संपूर्णम् ॥