षडाननं चंदनलेपितांगं महोरसं दिव्यमयूरवाहनम् ।
रुद्रस्यसूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ १ ॥

जाज्वल्यमानं सुरवृंदवंद्यं कुमार धारातट मंदिरस्थम् ।
कंदर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ २ ॥

द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसी दधानम् ।
शेषावतारं कमनीयरूपं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३ ॥

सुरारिघोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् ।
सुधार शक्त्यायुध शोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ४ ॥

इष्टार्थसिद्धिप्रदमीशपुत्रम् इष्टान्नदं भूसुरकामधेनुम् ।
गंगोद्भवं सर्वजनानुकूलं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ५ ॥

यः श्लोकपंचमिदं पठतीह भक्त्या
ब्रह्मण्यदेव विनिवेशित मानसः सन् ।
प्राप्नोति भोगमखिलं भुवि यद्यदिष्टम्
अंते स गच्छति मुदा गुहसाम्यमेव ॥